Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
३॥
ऽश्मगर्भरुक् । ऊमिकेयं नदादित्या (सीता) राजस्य गण्डनम् ॥ १.१५ ॥ अथ प्रभुत्वं विभागे, श्रीनाभौ युगधर्मिणाम् । सपञ्चाशीतिपक्षेषु, तृतीयारकवर्त्तिषु ॥ ११६ ॥ चतुःसमन्विताशीतिपूर्वलक्षेष्वशेषतः । शेषेष्वाषाढतुर्येऽहिन, श्यामां वैश्व गते विधी ।।११७॥ जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धितः । कुक्षौ श्रीमरुदेवायाः, स्वामिन्याः समवातरत् ॥१.१८ ॥ वृषभसिहश्रीदामेन्द्रर्कध्वजघटान् सरः । अब्धिं विमानरत्नौघवणीन् स्वप्नानवैक्षत ॥ ११९ ॥ सुखमस्यावतारेऽभून्नारकाणामपि क्षणम् । प्रबुद्धा नाभये स्वग्नान् मरुदेवा न्यवेदयत् ॥ १२० ॥ तद्विचारप्रवृत्तस्य नाभेः शक्रादयस्तदा । एत्य नत्वा जिनोत्पत्तिमाख्याय च दिवं ययुः ॥१२१ ॥ काले चैत्रासिताष्टम्यामुत्तराषाढया युते । विधौ युगलधर्माणां देवी सुतमसूत सा ॥१२२॥ अभूद् दुन्दुभिनिर्घोषो, मुदितं नारकैरपि । आसीद्विश्ववयोद्योतो, दातो वाति स्म शीतलः ॥ १२३ ॥ अथासनप्रकम्पेन, प्रयुक्तावधयस्तदा । षट्पंचाशदिक्कुमार्यः सूतिकर्म्मार्थमभ्यगुः ||१२४ ॥ अष्टाधोलोकवासिन्यः, 'संमार्जनकपाणयः । अष्टोर्ध्वलोकवासिन्यो, जलवृष्टिकपरायणाः ॥ १२५ ॥ पौरुस्त्यरुचकादायुरष्टौ दर्पणपाणयः । अपाच्यरुचकाटष्टौ भृङ्गारैरुपशोभिताः ॥१२६ ॥ प्रतीच्यरुचकादष्टौ तालवृन्तस्फुरत्कराः । उदीच्यरुचकादष्ट, प्रोल्लसच्चामरैः करैः ॥१२७॥ विदिग्भ्यो दीपिकाहस्ताश्चतस्त्रो दिक्कुमारिकाः । रुचकद्वीपतधेयुश्चतस्रः शस्त्रपाणयः ॥ १२८ ॥ एताच मिलिताः सर्वाः सूतिकासदनान्तरे । याम्यपूर्वोत्तरस्थेषु, रमभागेहेषु कुर्वते ॥ १२९ ॥ अभ्यङ्ग स्नपनं रक्षा, जिनस्य जननीयुजः । पश्चात्तिष्ठन्ति गायन्त्यस्तद्गुणान् गणनातिगान् ॥ १३० ॥ युग्मम् ॥ अथासनप्रकम्पान्तु घण्टानादादनाहतात् । शक्रादयो जिनोत्पत्तिमवधेश्च विजानते ॥ १३१ ॥ अथ प्रथमकल्पेन्द्र - । शक्रसिंहासनासनः । विमुच्य पादुके दत्त्वा सप्ताष्टानि पदानि च ॥ १३२ ॥ सन्मुखान्यर्हतो भक्त्या, पञ्चांगस्पृष्टभूतलः । योजयत्वा करौ शीर्ष स्तुत्वा शक्रस्तवेन च ॥१३३॥ लक्षयोजनमानेऽथ विमाने पालकाभिधे । आरुह्य सपरीवारो, गत्वा नन्दीश्वरेऽत्र च ।। १३४|| संक्षिप्य तद्रिमानं द्राग्, जिनजन्मगृहादथ । ईशानकोणे संस्थाप्योतीर्य चानमति प्रभुम् ॥१३५॥ कलापकं ॥ ततः प्रदक्षिणीकृत्य, भगवंतं समातरम् । मूर्ध्नि बद्धाञ्जलि स्तौति, जिनस्य जननीमिति ॥ १३६ ॥ अज्ञानध्वान्तविध्वंसध्वान्तारातिसमाकृतिम् । जिनं जनयितुं देवि ! पूर्वाशासन्निभे जय ॥१३७॥ इति स्तुत्वा प्रतिच्छन्दं, देवीपार्श्वे विमुच्य च । अवस्वापनिकां दत्त्वा, पंचरूपधरोऽभवत् ॥१३८ || जिनमेकेन रूपेण, विभ्रत् छत्रं परेण च । द्वाभ्यां च चामरे गृह्णन् पञ्चमेन पवि धरन्
॥३३॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194