Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री
प्रव्रज्या
श्रीप्रद्यु
मीयवृत्त
॥१२८॥
| गात्रादुद्वर्त्योत्तारयन्ति चेत् || ६ || तच्चिन्तितमनालोच्य लेख्यशेषो वधुत सः ।
ततः प्रभृतः सुखभागभूत् ॥७॥ ततश्च्युतश्च | कौशाम्ब्यामिभ्यपुत्रतयाऽभवत् । निर्विण्ण्कामभोगोऽथ धम्मं श्रुत्वाऽऽददे व्रतम् ॥८॥ तंत्र कर्म्मण्युदार्णे च दुर्गं दुर्गन्धमाप सः । यत्र यत्र व्रजत्येष, तत्र तत्रोपहासिता ॥ ९ ॥ भणितः साधुमिः सोऽथ मा निर्गच्छ प्रतिश्रयात् । यतः शासनमालिन्यं, गोपनीयं प्रयत्नतः ॥ १०॥ नित्यं दुर्गन्धकायोऽयं, कायोत्सर्ग' व्यधात्ततः । अंगभोगेन तत्कर्म्मममभंगे समुद्यतः ॥ ११ ॥ कर्म्मण्युदीर्णे जीर्णेऽसौ देवताऽवनतांष्ट्रिकः । चक्रे दे वतया दिव्यगन्धसम्बन्धबन्धुरः ||१२|| सुगन्धिनिखिलद्रव्यगन्धन्यत्कारकारकः । काष्ठामुपागतः कायो, देवस्तस्याध्यवासयत् ॥१३॥ सुगन्धत्वेऽपि दुर्गन्धरीत्या वाच्यं जने गतः । सुन्दरेऽसुन्दरे वापि स्यात् सर्वत्रातिगर्हिता || १४ || कायोत्सर्गवतस्तस्य पुनर्देवतदर्शनात् । दुष्ठुसुष्ठुविहीनत्वाद्गन्धः स्वाभाविकोऽभवत् ॥ १५ ॥ नाघिसेहे यथा तेन पुरा मलपरीषहः । साधुना नाधुना तद्वद्विधेयं विधिबंदिना ॥ १६ ॥
अथ सत्कारपुरस्कारपरीषहः- मथुरायां पुरा पुर्यामिन्द्रदत्तः पुरोहितः । स्वप्रासादगवाक्षस्य, आयान्तं मुनिमीक्षते ॥१॥ तस्मिन्नधः समेतेऽसौ लम्बमानं पदं व्यधात् । अमुष्य मस्तकें न्यस्तः स्यादित्याकूतदुष्टधीः ||२|| श्रेष्ठिना स तथा दृष्टः, श्रावण च केनचित् । अमर्पणः स सागारः, संगरं विदधाविति ॥ ३॥ यदि तेन पदश्चक्रे, वक्रेण मनसा मुनी छेदनीयस्ततोऽवश्यं मया गतदयात्मना ॥४॥ | मार्गयत्यन्वहं तस्य, छिद्रमुन्मुद्ररोषधीः । भूतः कृतात्मरक्षस्येवास्य तल्लभते न तु ॥ ५॥ अन्यदा विशदाचार्यपदान्नत्वाऽऽख्यदेष तत् । तैरूचे सह्यते ह्येष दुःसहोऽपि परीपहः || ६ || स प्राह विदधे सेयं, प्रतिज्ञा निर्दया गया । सूरयः प्राहुरधुना, किमोकस्यस्य वर्त्तते ? ||७|| स | जगादाज्ञानसिंधुरोधसोऽस्य पुरोधसः । प्रासादोऽस्ति नवो भावी तत्प्रवेशमहोत्सवः ॥८॥ भोजनाय जनाधीशमयमामन्त्रयिष्यति । समग्रपरिवारेण सहितं पूजयिष्यति ||९|| आचार्या जगदुस्तर्हि प्रासादे प्रविशन्नृपः । तर्हि त्वया धृतेः नत्वा, विधातव्योऽतिदूरतः ॥ १७ ॥ | प्रासादोऽयं पतत्युच्चैरितिवाच्यं नृपाग्रतः । तदाऽहं पातयिष्यामि, प्रासादं हृद्यविद्यया ॥ ११ ॥ तथा भूतेऽखिलेऽप्यर्थे श्रेष्ठिना भणितो नृपः । यन्मारयितुमारब्धा, यूयमेतेन पाप्मना ॥ १२ ॥ कुपितस्तस्य भूपालः, श्रावकस्य तमापयत् । तेनास्य चरणौ बद्ध्वा चेन्द्रकीले प्रवेशितः ॥ १३ ॥ पश्वादयोमयं कृत्त्वा, छित्वा चैनं दयामयः । पुरोहितमथो भूतदयः श्रेष्ठी व्यसर्जयत् ॥१४॥ साधुना साधु एवैष, विषोढव्यः परिषहः । न तु श्रावकवत्कार्यमकार्यमिदमीदृशम् ॥१५॥
सत्कार श्रेष्ठी
१२८३

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194