Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
४६ धर्म.
फलद्वारे
प्रद्यु
श्री ॥२३॥ युग्मम् ।। तासामप्रतिमानां च, प्रतिमानां नराधिपः । स्नानपूजाः स्तुतीः कृत्वा, विनीता नगरीमगात् ॥२४॥ तत्रापि प्रभुपादानां, चज्या संस्मरन शोकविहबलः । अमात्यैः प्रतिबोध्यैषु, स्वकृत्येषु प्रवर्तितः ॥२५॥ स्वामिमोक्षदिनात्पञ्चपूर्वलक्षीमलक्षयत् । यान्ती निमेषवन्नैप,
विष्वग्गोचरगोचरः ॥२६॥ अन्यदा विहितस्नानो, हरिचन्दनचर्चितः । देवदूष्याण्यदूष्याणि, वमानो बसनान्यसौ ॥२७॥ विभ्राणो मुकुट भरतचक्री त्यवत्तौ मूर्ध्नि, कर्णयोः कुण्डलद्वयम् । अवेयकं च ग्रीबायामङ्गदे बाहुरङ्गदे ॥२८॥ अंगुलीवंगुलीयानि, मुक्ताहारं च वक्षसि 1 चरणद्वितये
योग्यचरणाभरणानि तु ॥२९॥ श्रीनाभेयकुलाब्धीन्दुसनाभिमृगनाभिजाम् । विभ्रच्छिरसि ताम्बूलमास्ये पञ्चसुगन्धिकम् ॥३०॥ चतुःषष्ट्या १४८॥
Iral सहस्रैश्च, सुभद्रादिभिरावृतः । प्रेयसीभिः स्मरक्ष्मापद्वाराबलगकैरिब ॥३१॥ निजधीभरतश्चक्री, भरतः शक्रसन्निभः । रत्नादर्शगृहे गत्वा:
ऽत्मादर्श समलोकत ॥३२॥ षड्भिः कुलकम् ॥ इतश्च निश्चयोपात्तपखिज्येन बाहुना । या तप:श्रीः समाराद्धा, पूर्वलक्षाश्चतुर्दश ।।३३॥ एकान्ते चैकदा सैवाभ्येत्य श्रीकेवलिश्रिया । अभिलापातिदुःखिन्या, सुतयेव निजा प्रसूः ।। ३४|| मातस्तदा मयाऽज्ञायि, मङ्गं त्वं जनयिष्यसि ।
भवेऽत्रैव ममानेन, बरेण सह बाहुना ॥३५॥ सौददातरताशितैजना सरपितैः : गाई वद्धानुरागं मां, तदा वेति भवत्यपि ॥३६॥ 10 देवयोगात् परं नाभुत्तदा मे तेन संगमः । सर्वार्थसिद्धिं सम्प्राप्तस्तवाप्यजनि दूरतः ॥३७॥ गृहिणीरहितं तत्र, तं श्रुत्वा श्रुतवाक्यतः 10
तस्मिल त्यक्तवत्यस्मि, रागं दूरगताऽपि हि ॥३८॥ अधुना स प्रियः प्राप्सस्तीर्थकृत्पुत्रतामपि । अभद्राभिः मुभद्राभिः, स्त्रीभिर्विलाव्यतेऽधिकम् ॥३९॥ विश्वालोकस्वभावायाः, पश्यन्त्या अपि मे पुरः । मत्तियों भुज्यतेऽन्याभिनारीभिः किं करोम्यहम् ? ॥४०] स्वदुःखं तदिदं मातस्तवाग्रे कथितं मया । यथा तथापि तं नाथं, मम मेलय हेलया ॥४१॥ तपःश्रीः प्राह किं वत्से !, करोमि ? गृहभेदतः । विनष्टं हि तदा ४ कार्यमेतज् ज्ञातं मया स्वयम् ॥४२॥ परस्य मिलिते ह्यात्मजने कार्य विनश्यति । काष्ठम्खण्डे कुठारेण, घट्टिते छिद्यते द्रुमः ॥४३॥
मदीयपरिवारान्तर्यदभ्यन्तरमानुषम् । साधूपकारकं साधुवैयावृत्त्याख्यमस्ति यत् ॥४४॥ मिलित्वा तेन विषयाभिलाषस्य पुरस्कृताः । विषया मोहराट्पुत्ररागराजस्य मंत्रिणः ॥४५॥ ततस्तैर्विषय रेष, वैयावृत्याद्विजृम्भते । अपरापरनारिणामानीतः करगोचरम् ।।४।। एतैर्विमोहितौ दानशीलाख्यौ तु ममाग्रजौ । न मां ममानुजं भावमुपलक्षयते ह्ययम् ॥४७॥ तद्वत्से ! ग्राममध्ये न, प्रवेशोऽपि हि लभ्यते । यत्र देशव्रतानां तु, द्वयं प्रक्षिप्यते कथम् ? ।।४८॥ सुन्दरं त्वेकमेवास्ति, चरितेऽस्याधुनातने । यदेष स्वकृतिं कृत्वा, श्रावकानित्यपाठयत्
॥१४८॥
अE

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194