Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री
प्रव्रज्या०
श्रीप्रद्युमीयवृत्तौ
॥ १६०॥
द्वे एव गती द्वावैव मार्गों साहसवतां सत्त्ववतां धीरपुरुषाणां बुद्धिमन्नराणां वलहत्थी - कमलहस्ता राज्यश्रीः अथवा प्रव्रज्या, लक्ष्मीर्हि कमलहस्ता भवति, प्रव्रज्या तु विकस्वरा कमला मोक्षलक्ष्मी ईष्टे यस्याः सा तथा अपरा हि लक्ष्मीः विकस्वराऽपि संकुचिता, आत्मनाशे वा लक्ष्मीनाशे वा अनवस्थितत्त्वं तस्याः, मोक्षलक्ष्मीः सदा स्मेरा प्रव्रज्याऽतो भवतीति ॥ अत्रार्थे हेलापहस्तितचनिसम्पदः | सनत्कुमारादयः पूर्वोक्ता एव दृष्टान्ता ज्ञेयाः । इत्यस्याँ विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । निर्वाहकर्तुश्लाघाख्याष्टमा द्वाः समपूर्यत ॥ १ अथ मोहतरुच्छेदाचं नवमं द्वारमारभ्यते
अगुरुओ मोहतर अणाद्दभवभावणाविगयमूलो । दुक्खं उम्मूलिज्जइ अच्यन्तं अप्पमतेहिं ॥२५॥
अतिगुरुर्मोहतरुरनादिभवभावना-संसारसंस्कारः स एव विगतं ज्ञातं प्रख्यातं मूलं यस्य स तथा दुःखं यथा भवति एवमुन्मूल्यते अत्यंतमप्रमत्तैः- मद्यादिप्रमादपञ्चकरहितैरिति यदवोचमहं- "अनादितरसंसारसंस्कारदृढमूलभृत् । रागद्वेषद्वयीशाखः, कषायप्रतिशाखकः ॥ १ ॥ विषयच्छदनच्छन्नो, दुःखपुष्पैश्च पुष्पितः । मोहद्रुमः फलत्येष, फलेन नरकेन तु ॥ २॥ स चाप्रमत्तैरुन्मूल्यत इति ॥ २५ ॥ अत्रार्थे ऽप्रमत्ततायां अगऽदत्तराजपुत्रो दृष्टान्तस्तथाहि -
अस्ति शङ्खपुरं नाम पुरं शङ्खसमुज्जवलैः । चैत्यैज्र्ज्योत्स्नी निशा यत्र, निशाकरकरैरिव ॥ १॥ तत्र दत्तदरः शत्रुवर्गे सत्सु कृतादरः । नाम्नाऽपि सुन्दरः क्ष्मापः, सुन्दरच गुणैरपि ॥ २॥ अलसा गमने तस्यानलसा धर्म्मकर्मणि । सुलसा महिषी स्वर्णकलशोभपयोधरा ॥ ३ ॥ काले सुखमये याति, पंचगोचरगोचरे । तनयोऽगडदत्तोऽभूत्तयोर्दत्तोरुसंमदः ||४|| क्रमात् प्रवर्द्धमानोऽयं, स्पर्द्धमानो मनोभुवा ॥ समग्रविषयक्रीडाभवनं प्राप यौवनम् ॥५॥ बाल्यादपि सुदुर्दान्तः, किं पुनः सखिभिर्युतः । बभूव विश्वदाहाय, दहनः पवनैरिव ॥ ६ ॥ समानदानशङ्कश्च निःशूकः शुकलाश्ववत् । दुर्विनीतश्च न कदाचन त्यजति पातकान् ||७|| मांसासी मद्यपो द्यूतवेश्याव्यसनलालसः । परनारी रिरंसुश्च भ्रमति भ्रमतः | पुरे ॥८॥ समागत्यान्यदा पौरेरगौरैर्मुखरागतः । तद् दुष्टचेष्टितं तथ्यमकथ्यत नृपाग्रतः ||९|| तेजस्वी बहिनवद् दीपशिखामात्रो हि पूज्यते । प्रदीपने तु विध्याप्यः पयसा रजसाऽनेि सः ॥ १० ॥ तदाऽकर्ण्यमथाकर्ण्य, नृपः पुत्रेऽपि निष्कृपः । भृकुटि प्रकटीकुर्वन्नत्यर्थ च समीपगान् ॥११॥ अरे पुरः कुमारस्य, कथ्यतां गच्छ दूरतः । मदीयविषयाद् दंड्यो, मदीयान् विषयान् त्यज ॥ १२॥ बहुप्रजः प्रजामेकामेवं तं
८ मोहतरू
च्छेदः
अगडदत्तः
॥१६०॥

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194