Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१ मनुष्यत्व दुर्लभताद्वारं
प्रत्या० श्रीप्रधु
॥ अथ प्रव्रज्याविधानप्रकरणं सावचूर्णिकं प्रारभ्यते ॥ न्मीयवृत्ती ॥१७६
करणे :किया, -दुर्लभत्वं मनुष्यत्वे१, बोधेर्दुष्प्रापता ततः२ । प्रव्रज्याया दुगपत्वं ३, नत्स्वरूपप्रकाशनम् ४ ॥१॥ ४ तस्या विषमताऽऽण्यानं ५, धर्मग्य फलदर्शनम् ६ । व्रतनिर्वाहकत्वं च ७, श्लाघा निर्वाहकर्तुपु ८ ॥२॥ मोहभित्तिनुहोच्छेदो ९,
धर्मसर्वस्वदेशना १० । धर्मप्रकरणेऽमुष्मिन् दशद्वारविवेचनम् ॥३॥ अस्य प्रकरणस्य महार्थस्यापि मूत्रेण स्वल्पत्वात् मनसैवेष्टदेवतां ४ नमस्कृत्याद्यगाथया परमपदसौख्यमुख्यनिबंधनमनुष्यत्वस्यैव दुर्लभतामाह
संसार विसमसायरभवजलपडिआण संसरंताणं । जीवाण कहवि जह होइ जाणपतंव मणुअत्तं ॥१॥
संसार एव विषमः पातप्राप्तावपि दुस्तरत्वात् सागरः समुद्रः तत्रापरापरजन्मजले पतितानां परिभ्रमतां जीवानां कथमपि महता कष्टेन यानपात्रमिव मनुष्यत्वं यदि भवति, यतस्तत्र संसारसमुद्रे महाभीष्मदुर्दिनप्रबला विषयाः, कुवातप्रेरिता वेला इवाधिगेहंति नवनवा मनोरथाः, महायादस इवोच्छति संयोगवियोगाः, जलाच्छादितपर्वत इव मकरध्वजः, आवर्ता इव दुस्तराः कषायाः, नागदंता इवोत्कटा र रागद्वेषाः, महोर्मय इव दुःखपरंपराः, और्वानल इवापथ्यान्न, नेत्रबल्लीव स्खलनहेतुर्ममता, नक्रचक्रमिव कुविलल्पजालं, महामत्स्या इव व्याधयः, एतैः सर्वेः पोतभंगहेतुभिः संसारसागरी विषमोऽस्ति ॥१॥ अथ बोधिदुष्प्रापता प्रव्रज्यादुणापत्वं च एवं हे द्वारे गाथापूर्वार्धोत्तरार्धाभ्यामाह -
तत्यवि बोही जिणदेसिअंमि धम्ममि निक्कलंकमि । पब्बज्जापरिणामो सुकयप्पुन्नस्स जइ होइ ॥२!! तत्रापि-मनुष्यत्वे प्राप्तेऽपि आर्यदशशुभजातिसकलेन्द्रियपाटबजीवितव्यस्वमनोवासनासाधुसामग्रीसाधुसन्निधिधर्मथवणेषु सत्स्वपि
॥१७६॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194