Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 166
________________ दृष्टान्तः श्री दान्तोऽपरेणापि, भारेण दमयामि तम् ॥८॥ यत् सत्यं दम्य आत्मैव, यदात्मा सैप दुर्दमः । दान्तो ह्यात्मा सुखी नित्यमिह लोके परऽपि च मयर्यात प्रव्रज्या० ॥९॥ ध्यात्वेति ध्यानचित्तोऽयं, मध्येबाहीकमण्डलम् । स्थितोऽतिभारवाहीति, तत्र जज्ञे महत्तरः ॥१०॥ महाभारममुद्धारममर्थः म श्रीप्रद्यु- महोक्षवत् । जने शेन जनेनापि, गौरवात् समदृश्यत ॥११॥ उपत्यकामुपेत्यापि, महाभारेऽवतारित । न्मीयवृत्ती न्यत्करोत्यन्यवाहीकानधिरूढानधित्यकाम् ॥१२॥ भारोद्वाहक्षमे तस्मिन्नपरे भारवाहिनः । दिवाकर दिवाभीता, इब विभ्रति मत्मरम् ॥१३॥ ॥१५८५ गणिकत्वेन वैमुख्यं, प्रायः सुमनसामपि । पश्य मालाप्रसूनानि, विमुखानि शुचीन्यपि ॥१४॥ कर्तुं किमप्यशक्तास्ते, मत्सरच्छुग्तिा अपि । Irol पात्रस्य शाकिनीवास्थुश्छलान्वेषणतत्पराः ॥१५॥ सोऽन्यदा शैलमारोहन्नायन्तं यतिमैक्षत । सदाऽपि दसमन्यैश्चादत्त मार्ग च तस्य मः १६॥ तैश्छलान्वेषिभिः प्राप्य, तच्छलं भूभुजोऽग्रतः । विज्ञप्तं देव ! दत्तोऽपि, बरोऽनेन विलोपितः ॥१७|| स आहूय महीशेन, भाषितः प्राह । o साहसी । यद्देवेन वरो दत्तोऽस्माकं भारभृतां किल ॥१८॥ ततो यद्यसमर्थत्वाद्यो मया भार उज्झितः । तं यो वहति नित्यं किं, मार्गस्तम्य न दीयते ? ॥१९॥ अथोचुरपरे भारवाहिनः क्रोधवाहिनः । नाभूत्तेन समुत्क्षितं, तृणमात्रमपि प्रभो ! ॥२०॥ तेनाथ पृथ्वीनाथेन, पृष्टेनर कथितो भृशम् । भारोऽष्टादशशीलांगसहस्राणां सुदुर्वहः ॥२१॥ अत एव समूह्यन्ते, विश्रायद्भिः परे भराः । वोढव्यः शीलभारस्तु, यावज्जीवमविश्रमः ॥२२॥ श्रुत्वेति जातसंवेगास्तेनैव सह केचन । व्रतं जगृहिरेऽन्ये तु, गृहिंधर्म जिनोदितम् ॥२३॥ मत्वति साधुना शीलभर एव सुदुर्वहः । अप्रमत्तेन वोढव्यः, सोढव्यश्च प्रयत्नतः ॥२४॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतो । व्रतनिर्वाहणाद्वारं, सप्तमं पर्यपूर्यत २५।। अथ 'क्लाषा निर्वाहकतृष्धि'त्यष्टमद्वारमारभ्यतं, तच्च गाथात्रयेणाह ता तुंगो मेरुगिरी मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई जाव न धीरा पवति ॥२२॥ ता वित्थिणं गयणं तावच्चिय जलहिणो य गंभीरा । गुरुणो कुलायला ताव जाव ने धीरेहिं तोल्लंति ॥२३॥ दुच्चिय हुँतिं गईओ साहसवंताण धीरपुरिसाणं । बलहत्थी रायसिरी अहव पवज्जा सया म्हेरा ॥२४॥ तावत्तुंगः- उच्चस्तरो लक्षयोजनप्रमाणत्वान्मेरगिरिः, मकरध्वजो मकराकरः समुद्रस्तावद् दुस्तरो भवति, वावद्विषमा

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194