Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
58
श्री गतिमासादयेदयम् ? ॥१५॥ सप्तमी नरकक्षोणीमित्युक्ते स्वाभिना नृपः । अनाकर्णितकं कृत्वा, क्षणेऽपृच्छत् पुनः प्रभुम् ।।१६।। अधुना का ण ७ व्रत प्रव्रज्या गतिं गन्ता ?, स महर्षिर्जिनेन्दुना । सर्वार्थसिद्धिमित्युक्ते, पुनर्व्यज्ञपयन्नृपः ।।१७॥ द्विधा व्याकरणं हेतोः, कुतो गतिविधौ मुनेः ? 1 स्वामी निवहि श्रीप्रद्यु- जगाद तच्चित्तवृत्ते दो गतेरयम् ॥१८॥ कथं न्विति नृपेणोक्ते, युक्तिं स्वामी समादिशत् । तदा त्वदागमेऽग्रस्थी, पत्ती सुमुखदुर्मुखौ ॥१९॥ श्री प्रसन्नः नीयवृत्ती मिथ्यादृशी निरीक्ष्यैनं, ध्यानस्थं प्राहतुर्मिथः । सुमुखस्तत्र चावोचदन्योऽयं पुण्यवानयम् ॥२०॥ तपस्यतस्तपस्तीवमस्य मन्ये महात्मनः । चन्द्रर्षिः
नैव स्वर्गोऽपवर्गो वा, दूरे दूरीकृतकुधः ॥२१॥ दुर्मुखः प्राह पापीयानयमग्राह्यनामकः । अद्रष्टव्यमुखोऽश्रव्यचरित्रश्च विपश्चिताम् ॥२२॥ अयं ४४ ॥१५६॥
प्रसन्नचन्द्रोऽहितुल्यः स्वासु प्रजास्वलम् । न्यस्य बालं सुतं राज्येऽदः पाषण्डममण्डयत् ॥२३॥ शम्पासम्यात भीमेन, स चम्पास्वामिनाऽधुना । दधिवाहनराजेन, गज्यादुत्थापयिष्यते ॥२४॥ अन्तःपुरपुरन्ध्यश्चामुष्य शुष्यबला बलात् । विटैर्विडम्बयिष्यन्ते, धनं धान्यं ग्रहीष्यते ॥२५॥ सचिवैरपि चैतस्य, वैपक्षं पक्षमाश्रितः । उपेक्ष्यतं भोक्षारसौ . क्षीरकण्हक: ॥२६॥ तदाकर्ण्य यतेः कर्णतप्तत्रपुसमं बचः । समाधिराधिना तस्य, निश्चलोऽपि चलोऽभवत् ॥२७॥ संकल्पवशतः पश्यन्, विपक्ष स्वपुरः स्थितम् । योद्धुं प्रववृत्ते क्रोधाद्, उद्धबोधो विरोधिमिः ॥२८॥ साक्षाद्विपक्षकक्षाशुशुक्षणिस्तत्र स क्षणे । वन्दितो भवता भूपयोग्योऽभूत् सप्तमावनेः ॥२९॥ अधुना तु धुनानेन, योधिनः स्वविरोधिनः । निरस्त्रेण शिरस्त्राणग्रहणायाहितः करः ॥३०॥ कृतलोचशिरःस्पर्शप्रबुद्धः स्वं तस्थितम् । स जातिस्मरणेनेव, सस्मार च निनिन्द च ॥३१॥ क्व मे ग़ज्यं परित्यज्य, स्वामिपार्वे व्रतादरः ? । क्व चापध्यानसन्धानात्, कर्मबन्धोऽतिवादरः ? ॥३२॥ हृदावालस्थितो धर्मध्यानशाखी ममानया । मनोव्यापारसन्तत्या, वात्ययेव प्रपात्यते ॥३३॥ इत्यमेष प्रतिक्रान्तः, क्षमाकान्तः प्रशान्तधीः ।
सर्वार्थसिद्धियोग्योऽभूद्, द्विधाऽसौ व्याकृतस्ततः ॥३४॥ प्रभुवाक्यस्य संवादे, सति दध्वान दुन्दुभिः । तदा मुदाऽऽहतो देवैरपृच्छन्नृपतिः Foll प्रभुम् ।।३५।। किमेतन्नाथ ! नाथश्च, प्राह श्रेणिक ! केवलम् । जज्ञे प्रसन्नचन्द्रदेवाः कुर्वन्ति तन्महम् ॥३६॥ ततश्च श्रेणिको दध्यौ, मन एव
निबन्धनम् । प्रसन्नमप्रसन्नं च, शिवस्य च भवस्य च ॥३७॥ इति प्रसन्नचन्द्रस्य, श्रुत्वा दृष्टान्तमद्भुतम् । मनसाऽपि न कर्त्तव्यः, कषायः | कषदो यतः ।।३८|| अप्रमादवतैव मर्वथा भाव्यमिति गाथार्थः ।। अथैनमेवार्थ तृतीयगाथया विशिनष्टिअन्लह सो परमत्थो अन्नह लोयाण चिट्ठियं इण्हि । अन्नेच्चिय दंत गयवराण चावंति अन्नेहि ॥१७॥ (१९)
॥१५॥
DOCO.:०

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194