Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री
प्रव्रज्या०
श्रीप्रधुमीयवृत्ती
॥१५३॥
चत्वा तामै हिरोः ॥ ५४॥ तैरेवासन्त्रितो देवैर्वज्रो घृतवरैः परैः पूर्ववद्विद्ययाऽऽकाशगामिन्या महितश्व तैः ॥५५॥ पदानुसारिप्रज्ञावान्, स्थिरीचक्रे मुनिर्जवात् । अङ्गान्येकादशाप्येष किञ्चित्पूर्वगतादपि ॥ ५६ ॥ मुनिर्वृद्धेः पठेत्युक्ते, शक्तिव्यक्तिमनाश्रयत् । शुश्रावान्यानधीयानान् कुर्वन् गिणगिणस्वरम् ॥५७॥ बर्हिर्गुरुषु भिक्षार्थं गतेष्वपि च साधुषु । वसतौ वज्र एकाकी, सन्निवेश्याथ वेष्टिकाः ॥ ५८ ॥ शिष्यालीनामिवैतासां स्वयं गुरुरिव स्थितः । प्रारेभे वाचनां दातुं स्वयमंगगताश्रिताम् ||५९ ॥ युग्मम् || गुरुस्तो वाचतावाचं, श्रुत्वाऽध्यायत् किमागताः । भिक्षां कृत्वा महाप्रज्ञाः, स्वाध्यायैः पालयन्ति माम् ? ||६०॥ विभाव्य वज्रस्यैकस्य, स्वरं मुदितमानसः । दध्यौ धन्यो ह्ययं गच्छो, बालो यत्रेदृशश्रुतः ॥ ६१ ॥ क्षोभो मा भूदमुष्येति चकार द्वारमाश्रितः । गुरुर्गुरुतरारावरुचिर्नैषेधिकीवचः ||६२ ॥ वज्रो गुरोः स्वरं श्रुत्वा न्यस्य स्थानेषु वेष्टिकाः । एत्यादाय गुरोर्दण्डं, पदरेणुं ममार्ज्ज सः ॥६३॥ गुर्वैधिरजसा भाले, स कृतालेपतः शिशुः । गुरुक्रमौ क्रमज्ञोऽयं प्रक्षाल्याम्भोऽभ्यवन्दत ॥ ६४ ॥ गुरुर्ज्ञापयितुं साधुं मत्वाऽस्य प्रतिभाप्रभाम् । निश्यूचे दिवसान् द्वित्रान् यामो ग्रामान्तरं वयम् ||६५ || वाचनाग्राहिणः प्राहुवचनां कः प्रदास्यति ? । वज्रस्तच्च गुरूप्रोक्तं तत्तथेति प्रपेदिरे ॥ ६६ ॥ प्रातर्गते गुरौ ग्रामं, मुनयो | विनयोज्ज्वलाः । गुरुवन्यस्य तं तस्मादाददुस्तत्र वाचनाम् ॥६७॥ तं बालमपि तत्कालमतिं सन्देहभेदने । गुरोरपि गुरुप्रीत्या ददृशुस्ते सुदर्शनाः ||६८ || सूरयोऽथ समायाताः, पपृच्छुर्वाचनासुखम् । तेऽप्यूचुर्वाचनाचार्यो, वज्र एवास्तु नः सदा ||६९ ॥ श्रुतशेषमशेषं च, गुरुर्वज्रमपाठयत् । उदग्राहयदप्येनं, तथाङ्गोपाङ्गसंभवम् ॥ ७० ॥ दृष्टिवादो गुरोर्यावस्तिावन्तं तमशिक्षयत् । पुरं दशपुरं जग्मुः, सर्वज्ञाः सूरयोऽन्यदा ॥ ७१ ॥ ते वज्रमूचुर्वत्स ! त्वं सद्गुरोर्भद्रगुप्ततः । दशपूर्वभूतोऽवन्त्यां दशपूर्वमधीष्व तत् ॥ ७२ ॥ स गुर्वाज्ञां दधच्छीर्षे, यतियुग्मयुतो ययौ । रजन्यामुञ्जयिन्याश्च नगर्या न्यवसद् बहिः ॥७३॥ भद्रगुप्तो गुरुः शिष्यान् ब्रूते स्वप्ने नवोऽतिथिः । पतद्ग्रहं पयःपूर्ण', पीत्वा तुप्तः क्षणादभूत् ॥ ७४॥ दशपूर्वीग्रही तावत् कोऽप्यद्यातिथिरेष्यति । दिष्ट्या न मयि विच्छेदो, दशपूर्व्या भविष्यति ॥ ७५ ॥ मुदा सूरौ वदत्येवं वज्रो नैषेधिकीं वदन् । विवेश वसतिं पश्चात् प्रथमं तु गुरोर्मनः ॥ ७६ ॥ प्रणमन् पादयोर्वज्रः कराभ्यां गुरुणाऽऽददे । आश्लिष्य | भाषितो ज्ञात्वाऽऽकृत्या वज्रो ह्ययं सुधीः ॥७७॥ कच्चित् सुखविहारस्ते ? गुरुः कुशलवांस्तव ? । किभवन्त्या विहारस्य कारणं वज्र ! पण्डित ! ||७८॥ वज्रः प्राहाखिलं भव्यमस्ति पूज्यप्रसादतः । अध्येतुं दशपूर्वी तु, पूज्यान् गुर्वाज्ञयाऽऽगमम् ॥ ७९ ॥ प्रभो ! प्रसीद तन्मह्यं,
॥ १५३॥

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194