Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री
व्रज्या
श्रीप्रद्युनीयवृत्ती
॥१३४॥
| मंत्रिगुप्तशिक्षितमालिकः । सर्वेषामब्जमेकैकमदाद्वररुचेः पुनः ॥ ५६ ॥ उन्माद्यन्मदनफलभोदव्याप्तोदरं करे। सर्वेऽब्जं म्वं समाजघुः, प्रशशंसुश्च सौरभम् ॥५७॥ युग्मम् || द्विजोऽपि हि निजांभोजगंधं तच्चूर्णगर्भितम् । उच्छ्वासेनाग्रहीद्रात्रिपीतं मद्यं बवाम च ॥५८॥ सभाया निर्गतो लोकैर्धिक्कृतो हक्कितश्व सः । प्रायश्चित्ते पपी तप्तं त्रपु प्राप च पंचताम् ॥ ५९ ॥ श्रीयकः पितृर्वैरस्य, पारगामी चिरादथ । सच्चक्रे | मंत्रिभिर्नाथ प्रजानर्थिबान्धवः ॥ ६० ॥ स्थूलभद्रस्तु संभूताचार्यक्रममुपासयन् । अधीतस्तत्र सूत्रार्थी दुस्तपं तपते तपः ॥ ६१॥ वर्षास्वभिग्रहानित्थं, जगृहुर्यतयस्त्रयः । जोपिता स्मश्वतुर्मास, कायोत्सर्गजुषो वयम् ॥६२॥ एकः सिंहगुहाद्वारे, दृग्विपाहिबिलेऽपरः । तृतीयः कूपमण्डूकासने स्थास्याम इत्यलम् ||६३ ॥ तेषां विज्ञाय सामर्थ्यमनुज्ञां गुरवो ददुः । स्थूलभद्राऽथ जग्राहाभिग्रहं दुग्रहं परैः ॥ ६४ ॥ कोशावेश्याश्रये चित्रशालायां षड्रसाशितः । स्थाता वर्षाः क्षमं मत्वा त्वज्ञासीत्तत्र तं गुरुः ॥६५॥ ततो नत्वाऽथ सर्वेऽपि ययुः स्थानं | यथोचितम् । कोशाभ्युत्थाय नाथस्त्वं, किं करोमीत्युवाच च ॥ ६६ ॥ स्थूलभद्रोऽवदद् धर्म्मलाभस्तेऽस्तु ममार्प्यताम् । चित्रशालां चतुर्मासी, निवासायापयच्च सा ॥ ६७ ॥ तत्रास्थादेष कोशा तु, दध्यौ भग्नो व्रतादयम् । समेतो मामिति ध्यात्वा परसैस्तमभोजयत् ॥६८॥ ततः सा | स्फारशृङ्गारसारासारावभूषणा । स्थिरा स्थिराशयं तं तु दृष्टवा धर्मेच्छुरेव सा ॥ ६९ ॥ ननाम काममुत्सृज्य, भावपावनमानसा | 'निर्नष्टकामनाकोटी प्रवेशा प्राप्तपोतिका ॥७०॥ सा नताङ्गी तत्तो भक्तया, रराजास्य मुनेः पुरः । पतिता कुण्ठतां प्राप्य, स्मरास्त्राsलिरिवाबनौ ॥७१॥ स्थूलभद्रान्न मन्येऽन्यं, वेश्यावशमिहापरम् । गुरोर्धर्म्ममपि प्राप्यानीयास्यै यः समार्पयत् ॥ ७२ ॥ कामो दिपयपञ्चास्यः, कटाक्षो दृग्विषः फणी । कूपः स्त्रीसन्निधिस्तेन तत्त्रयं तत्र यन्त्रितम् ॥७३॥ श्राविका सा न शिश्राय, नृपादिष्टात् परं नरम् । बभूव च विवेकाश्वमन्दुरा सुन्दरा क्रमात् ॥७४॥ निर्व्यूढाभिग्रहाश्वागुस्ते गुरून् यतयस्त्रयः । प्रोक्तास्तैः स्वागतं योऽस्ति सदा दुष्करकारकाः ! ॥७५॥ आयान्तं स्थूलभद्रं त्वभ्युत्थाय गुरुरालपत् । सात्त्विक ! स्वागतं ते दुष्करदुष्करकारक ! ||७६ || सापत्रास्त्रयोऽप्येते, मुनयोऽथ मिथोऽवदन् । आमंत्रणं गुरोरत्र, मन्त्रिपुत्रत्वकारणम् ॥७७॥ यद्येवं षड्रसाहारः, कृतदुष्करदुष्करः । प्रतिपत्स्यामहे वर्षा तरे तद्वयमीदृशम् ॥७८॥ | अष्टामासीमतीयुस्तेऽथ गुरोः पुरतोऽग्रहीत् । प्रावृषि स्थूलभद्राभिग्रहं सिंहगुहामुनिः ॥७९॥ तत्कार्याक्षममाचार्या, विचार्याथ तमभ्यधुः । अभिग्रहग्रहोऽयं ते, प्राग्वृत्तस्यापि निग्रहः ॥ ८ ॥ इत्थं गुरुनिषिद्धोऽपि तत्रागाद् वेश्यया पुनः । एष श्रीस्थूलभद्रेण, स्पर्धावानित्यलक्ष्यत ॥
-
॥ १३४॥
ज्ञान
स्थूलभद्रः

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194