Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री
व्रज्या ०
श्रीप्रधु
नीयवृत्ती
॥१३६॥
1
स्थूलभद्रं सोऽन्वगात्तत्कथित १०६ स्थूलभद्र भगवान् कुते चिविधं तपः । शास्त्रविस्मृतिकृच्वाभूद्, दुर्भिक्षं द्वादशादिकम् | ॥ १०७ ॥ वीतेऽस्मिन् मिलितः सङ्घः, पाटलीपुत्रपत्तनं । एकादशाङ्गी सम्पूर्णा, जज्ञे पूर्वगतं न तु ॥ १०८॥ द्वी मुनी प्राहिणात्मस्तदि भद्रबाहवे । सोऽज्ञापयन्महाप्राणध्यान्यहं नागमक्षमः ॥ १०९ ॥ सङ्घादिष्टौ मुनी चान्यौ, गत्वा तं सूरिमूचतुः । संप्रादेशं न यः कुर्यादण्डः कोऽस्य विधीयते ? ॥११०॥ संघबाह्यः क्रियेतासी, सुर्युक्ते तौ तमूचतुः । तर्हि तद्दण्डयोग्योऽसि मुरिचेऽथ शुद्धधीः ॥ १११ ॥ प्रमद्य मद्यः श्रीसंघः प्रहिणांत मुनीनिह । तेभ्योऽहं वाचनां दास्याम्येकां भिक्षात आगतः ॥ ११२ ॥ द्वितीयां कालवेलायां तृतीयां च वहिर्भुवि । तुर्या विकालवेलायां, तिम्रश्वावश्यकक्षणे ॥ ११३ ॥ इत्थं श्रीसंघकार्यं च मत्कार्यं च प्रमेत्स्यति । इत्यागत्यादिते ताभ्यां सूरिवाक्यं समादिशन् ॥ ११४ ॥ श्रीमंघः स्थूलभद्रादि, प्रज्ञालं शतपञ्चकम् । तेपां च वाचनाः सप्त, दिदेश श्रुतकेबली ॥ ११५ ॥ पंचभिः कुलकम् ॥ वाचनान्यतया | त्वन्ये, स्थूलभद्रं विना ययुः । स प्रोक्तः सूरिणा ध्यानं, पूर्णप्रायमिवास्ति मे ॥ ११६॥ इत्युक्तः सुस्थिरः पूर्णध्याननां भद्रबाहुतः । द्विवस्तूनानि पूर्वाणि पपाठ दश स क्रमात् ॥ ११७ ॥ भगिन्यः स्थूलभद्रस्याभ्येत्य नत्वा गुरुं जगुः । क्व ज्येष्ठार्यो ? गुरुत्वाख्यदनोऽपवरकेऽस्ति सः ॥ ११८ ॥ स ता निरीक्ष्य हर्यक्षरूपोऽस्थात् ताः पुनर्गुरुम् । प्रापुर्मत्वापयोगेन, गुरुः प्राहास्ति नो हरिः ॥ ११९ ॥ गता ववन्दिरे स्कूलम यक्षा जगाद च । भगवन् ! सार्धमस्माभिः श्रीयकोऽध्याश्रितो व्रतम् ॥ १२०॥ स तु तीव्रक्षुधः पर्युषणापर्वणि मद्गिरा । यामादिप्रत्याख्याने नोपवासं कृतवानलम् ॥ १२१ ॥ रात्रौ दिवं गते तत्र माधुहिंमोत्थखेदयुक् । संघेनावाचि नावं ते, जिनाख्याते धृतिर्मम ॥ १२२ ॥ कायोत्सर्गे स्थिते संघे, सीमन्धरजिनान्तके । निन्ये शासनदेव्याऽहं निर्दोषा भाषिताऽर्हता ॥ १२३॥ चूलिकायुगलं स्वामिदत्तं संघस्य चार्पयम् 5 इत्युदित्वा ययुः साध्व्यः स्वाश्रयं सपरिच्छदाः || १२४ || वाचनार्थमथायातं, स्थूलभद्रं गुरुर्जगौ । न योग्योऽसीति स स्वागो, व्रतादानाद् | व्यचिन्तयत् ॥ १२५ ॥ अस्मृतौ तं गुरुः प्राहः, संघानां ( कृत्वाऽघं) त्वं न मन्यसे । सोऽयं पुनः स्मरणतः पल्लग्नोऽक्षमयद् गुरुम् ॥ १२६ ॥ सर्वथापि निषिद्धो यः प्रवः संघमसज्जयत् । तदभ्यर्थनयाऽभ्येत्य, संघः सूरिमभाषत ॥ १२७॥ श्रुतकेवल्यथ प्राह, विकारोऽस्यापि यत्किल । तदन्ये विकरिष्यन्ति तस्मादेव न शिष्यते ॥ १२८ ॥ संघेनोक्तः पुनः स्थूलभद्रमित्यन्वशाद् गुरुः । न त्वया शेपपूर्वाणां कार्यं क्वापि प्रकाशनम् ॥ १२९ ॥ स्थूलभद्रस्ततः सर्वपूर्वभृत् सूरितायुतः । आगतः पाटलीपुत्रं मित्रावासं च संघयुक् ॥ १३० ॥
ज्ञाने स्थूलभद्रः
॥१३६॥

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194