Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
या०
-
वृनौ
६॥
काकगृधाहिरूपैश्व, लोहतुण्डैर्वलान्वितैः । विनिकृष्टाक्षिजिह्नात्रा, विचेष्टते महीतले ॥ ९ ॥ प्राणोपक्रमणैघरिदुःखैवंविधैरपि । आयुष्यक्षपिते | नैव, म्रियन्ते दुःखभागिनः ॥ १० ॥ शरीरमन्यज्जीवोऽन्य, ईदर्शी' मतिमादधत् । छिन्द्वि देहे ममत्वं त्वं, जीव ! दुखकरं परम् ॥११॥ इति ध्यायन्नयं सम्यक् स सेहे तं परीपहम् । निश्यस्यामेव तत्पीतशोणितो दिवमासदत् ॥१२॥ इत्थं महर्षिभिः मह्यमथाचेलपरीसहः । देशाद्यैस्तुद्यमानोऽपि न चेलं प्रार्थयेन्मुनिः ॥ १३॥ उक्तं च पंचमिः स्थानैराद्यन्त्यजिननाथयोः । अचलत्वं वरं तत्र, प्रागल्या प्रत्युपेक्षणा ॥१४॥ रूपं विश्वासपात्रं च तपश्चानुमतं भवेत् । लाघवं च विना भारं भूरिश्चेन्द्रियनिग्रहः ॥ १५ ॥ यदत्पचेलकत्वं तु, तद्धि धम्मंहितं मतम् । अग्न्याद्यारम्भविरतेस्तत् संयमफलं यतः ॥१६॥
अथालदुष्टान्तः पुरे दशपुरे सोमदेवो नाम द्विजोऽभवत् । तत्पत्नी रुद्रसांमाख्या, सामाख्या स्वशीलतः ||१|| सुरक्षितगुणः पुत्रोऽभूत्तयोरार्यरक्षितः । प्रथमोऽथापरोऽफल्गुवचनः फल्गुरक्षितः ॥ २ ॥ यज्जानाति पिता तत्र तदध्यष्टार्यरक्षितः । तदुध्वं पुनरध्येतुं, पाटलीपुत्रमभ्यगात् ॥ ३ ॥ तत्राधीत्य सुधीविद्यास्थानान्येष चतुर्दश । पुनर्दशपुरं प्राप, दिशादर्शकविश्रुतः ॥ ४॥ म राजविंदितः स्वं तद्राज्ञे। ऽज्ञापयदागमम् । अथोच्छ्रितपताकं तन्नृपः पुरमचीकरत् ॥ ५ ॥ सद्यः संमुखभागत्य तं सत्कृत्य च गौरवात् । तस्य द्विजन-नाग्रस्यापहारं शासने ददौ ||६|| स्तुतिव्रतैरिव स्तूयमानोऽथ स घनैर्जनैः । सिन्धुरस्कन्धमाह्य, निजं सदनमासदत् ||३|| तत्रापि तस्य बाह्याभ्यन्तरा चास्ति सभा वरा । उभे अपि हि कल्याणवेदिकाकलशायते ||८|| म बाह्यसंसदासीनो, जनस्यार्थ प्रतीच्छति । वयस्यान् स्वजनांश्चापि तत्राऽ प्रयातान् निरीक्षते ॥ ९ ॥ तस्य भूजानिवत्पूजां जनाः परिजनो व्यधात् । चतुष्पदाष्टापदाद्यैर्गृहं तस्य च पूरितम् ॥१०॥ स दध्यौ दृश्यते नाम्वा, मध्येण्यं गतस्तथा । ननाम मातरं प्रोचे, तया च स्वागतं सुत । ॥ ११ ॥ उदासीनाभिव प्रेक्ष्य, जननीं स पुनर्जगी । मातः ! किं नाभवत्तुष्टिः ?, तुष्टेऽपि नगरेऽत्र वः ॥ १२ ॥ चतुर्दशमहाविद्यास्थानाध्ययनतो मया । विस्मापितं पुरं सर्व, राजराजसभान्वितम् ॥१३॥ अम्बा प्राह कथं पुत्र !, मम तुष्टिः प्रजायताम् ? । यदधीतं त्वया तद्धि, सत्त्वसङ्घातघातकम् ||१४|| भवो भवति दीर्घोऽस्मात् तस्मात्तुष्याम्यहं कथम् ? । दृष्टिवादं पठित्वा किं भवानस्ति समागतः ? ॥१५॥ स दध्यौ स कियान् भावी, तत् पठाम्येनमप्यहम् । यथा तुष्यति माता मे, तोषितेन जनेन किम् ? ॥ १६ ॥ ध्यात्वेत्युवाच कृत्राम्ब !, दृष्टिवादः स पठ्यते ? । सा प्राह परमा श्राद्धी, श्रीजिनेन्द्रस्य
अचले सोमदेवः
॥ ११६॥

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194