Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्रद्युवृत्ती
जावज्जीवममजणमणवरयं भूमिसयणमुदृिढ । केसुद्धरणं च तहा निष्पडिकम्मत्तणमपुवं ॥५॥ ज्या० । यावज्जीवं अमज्जन-अस्नान, उद्दिष्टमिति द्वितीयपदगतं चतुर्वपि पदेषु योज्यते, यदुक्तमुक्तया पूज्यीहरिभद्रगुगर्मया । 0
8 ममरादित्यसंक्षपे, साधुस्नानोज्झनक्षणे ॥१॥ कृते स्नाने क्षणं शौचं, गगमानौ च चेतसि | स्त्रीजनप्रार्थनीयत्वं, ब्रह्मचर्यस्य दूषणम् ॥२॥ घातो
जलस्थजीवानामन्यसत्त्वविबाधनम् । क्षीरक्षालनमंगारे, इवाज्ञानप्रकाशनम् ॥३॥ अस्नाने तु न दोषास्ते, मत्वेति मुनिपुंगवैः । वयं म्नानं ०३॥
मतः सिशिवधूतंगासाहै: चा लव भूमिशयनमुद्दिष्टं, न तु पल्यंकादिशयनं, केशोद्धरणं च, तथा निष्प्रतिकर्मत्वं अपूर्व, ४ विशिष्टमित्यर्थः, समासतो गाथार्थः, ब्यासार्थस्तु निष्प्रतिकर्मत्वे श्रीसनत्कुमारचक्रवर्तिमुनिशुदाहियते, तथाहि-श्रियं कांचन विभ्राणे,
श्रीकांचनपुरेऽभवत् । श्रीविक्रमयशोव्याप्तः श्रीविक्रमयशा नृपः ॥१॥ अन्तःपुरपुरन्ध्योऽस्य, सन्ति पंचशतीमिताः । स चिक्रीड समं ४ तार्भिवशाभिरिव वारणः ॥२॥ तत्रेभ्यो नागदत्तोऽस्ति, तस्य लोकोत्तराकृतिः । विष्णोः श्रीरिव विष्णुश्रीः, प्रिया प्राणप्रियाऽस्ति च ॥३॥ साऽन्यदा दृग्गवाक्षेण, प्रविश्य नृपद्गृहम् । विवेकादीनि रत्नानि, चिरत्नान्यप्यपाहरत् ॥४॥ ज्ञात्वा दस्युमुदास्यैना, न्यास्थदन्तःपुरे तृपः । foll बद्धा च बाहुपाशेनामुंचन्नात्तरसामपि ॥५॥ तामेव पीडयन्नंगे, रक्षत्यन्याः स वीरसूः । राज्ञः संवननं चौरनिग्रहश्च यतो नयः ॥६॥ निजप्रियावियोगार्त्तिग्रहग्रस्तोऽन्यचेतनः । उन्मत्तो नागदत्तोऽभूदत्तदुःखो नरेन्दुना ॥७॥ चतुष्के चत्वरे मार्गे, द्विपथे च चतुष्पथे । वैष्णवो र विष्णुवद्विष्णुश्रियमेकाममस्त सः ॥८॥ तामेव हृदये बिभ्रद्बहिरन्तश्च सन्ततम् । न कांचनपुराधीशो, मेने कांचन किंचन ॥९॥ प्राणेशवरापहारिण्यास्तस्याः प्राणापहारकम् । निर्ममुः कार्मणं राजपल्योऽन्याः कामनिष्ठुराः ||१०|| कार्मणेन मृतामेतामजानन् मोहमोहितः ।
कुपतिः कुपितां जानन्नङ्लिग्नश्चटून्यधात् ॥११॥ चटुभिः पटुभिल्पैिरजल्पंतीभिमामयम् । अंके कृतां (त्वा) क्षमाभर्ता, (निजावस्था) * कृपालीको न्यवेदयत् ॥१२॥ तद्वीक्ष्य सोऽन्यतो निन्ये, मन्त्रव्याजेन मन्त्रिभिः । विष्णुश्रियः शरीरं तु, भुजिष्यैः प्रेषितं बहिः ॥१३॥
मन्त्रिभिर्मन्त्रयित्वाऽसौ, वासवेश्मन्युपागतः । तया हीनं तु तद्वीक्ष्य, हा हतोऽस्मीति मूच्छितः ॥१४॥ अग्रे विष्णुश्रिया छिन्नचैतन्यं मूर्छयाऽथ तम् । शोच्यशोच्यमशोचन्त, सचिवाः शुचिबुद्धयः ॥१५॥ चन्दनादिहृता मृा, यदा स प्राह मन्त्रिणः । यत्र क्वापि प्रिया मेऽस्ति, o, ततोऽप्यानीय दीयताम् ॥१६॥ इयमत्रोपविष्टाऽस्ति, वदभिः सचिवैरपि । द्विदिन्यनन्तरं निन्ये, नृपः कुणपसन्निधौ ॥१७॥ तदा- 10 ॥१०॥

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194