Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
गोपितगोप्यांगं, कृमिका कलेवरम् । वीक्ष्य क्षोणिपतिर्दध्या, विवेकसदृशं हृदि ॥१८॥ कुलं शीलं यशः पुण्य, यत्कृते सर्वमुज्झितम् । प्रवच्या Moll तस्या एतच्छरीरस्य, परिणामोऽयमीदृशः ।।१९।। मलमूत्रनिधानेऽत्र, गात्रेऽसृविनगन्धिनि । तत्तच्छुद्धिरमध्येऽस्मिन्, मेध्यबुद्धिर्मया कृता 10 दाकरन
॥२०॥ अबिक्रमेण कामस्य, जयेऽपयशमा जने । स्वं नामापि मयाऽनर्थकारिणाऽनर्थकं कृतम् ॥२१॥ यथेदं नश्वरं देहं, तथेदमपि निश्चितम् । १ मनल्कमान 0 तदस्य लाभं गृहणामि, कर्मनिर्मूलकं व्रतम् ॥२२॥ ध्यात्वेति म व्रती सूरेः, सुव्रताद् दुग्तपं तपः । तप्त्वा सनत्कुमारेऽभूत्, कल्पे देवा कथा
महर्धिकः ॥२३॥ ततो रत्नपुरे जातो, जिनधर्माभिधो वणिक् । नागदत्तस्त्वभूद् भ्रान्त्वा, भवसिंहपुर द्विजः ॥२४॥ स त्रिदण्डयग्निशम्माग्यो, द्विमासक्षपणती । रामा र नरेन, सभापति मन्तितः ॥२५॥ तत्रैव जिनधर्म स, वीक्ष्य तद्विद् द्विधा वदत् । भोजनं भाजनं न्यस्य, कुबे पृष्ठेऽस्य नान्यथा ॥२६॥ हृदयं जिनधर्मस्य, जिनधर्मेण वासितम् ! राजाऽऽज्ञयाऽप्यतः प्राप पृष्ठं तम्यान्यतीर्थिकः ॥२७॥
तप्तपायसपात्रेणादाहि पृष्ठं न हृत्पुनः । तत्पृष्टेऽस्योढता तेन, छर्विनतु मुखच्छविः ॥२८॥ गत्वाऽऽश्रयमयं संघचैत्यपूजां विधाय च । Im व्रतमादाय शैलाग्रे, कायोत्सर्गेण तस्थिवान् ।।२९॥ पृष्ठमांसादिभिबैध्यिमानोऽपि निश्चलः । पूर्णायुरिन्द्रः सौधर्म, जिनधर्मोऽजनिष्ट सः ४॥३०॥ स त्रिदण्डी तु मृत्वाऽस्य, यानमैरावणोऽजति । ततश्चयुतो भवं भ्रान्त्वा, सिताक्षो गुहाकोऽभवत् ॥३१॥ इतश्च जम्बूद्वीपस्याभरणे | कुरुनीवृति । इहास्ति हस्तिनापुरं, पुरं सुरपुरप्रभम् ॥३२॥ रम्यश्च सेत इत्याख्याख्यातस्तत्राभवन् नृपः । सहदेवी महादेवी, चास्य देवीव
रूपतः ॥३३॥ तत्कुक्षौ जिनधर्मस्य, जीवः सौधर्मकल्पतः । चतुर्दशमहास्वप्नसूचितः समवासरत् ॥३४|| कालेऽसूत सुतं सा तु, महेनाथ 10 महीयसा । सनत्कुमार इत्याख्यामस्य ख्यातां पिताऽतनोत् ॥३५॥ मूर्तो मनोरथः पित्रोरयं सूनुरबर्द्धत । कुशल: कलयामास, क्रमशः 109 १२ सकलाः कलाः ॥३६॥ स सुभूभुलतावासनं प्राप्तश्च यौवनम् । मैत्री महेन्द्रसिंहेन, कालिन्दीसूरजेन च ॥३७॥ स च
सार्द्धकचत्वारिंशद्धनुस्तनुमानभृत् । अद्वैतरूपस्वर्णाभः, सर्वलक्षणलक्षितः ॥३८॥ अन्यदा मकरन्दाख्योद्याने मित्रेण संयुतः । गतो रन्तुं । वसन्तेऽसौ, वसन्तेनेव हृन्मयः ॥३९॥ तदा चाश्वपतिप्रलप्राभृताश्ववजान्नृपः । नाम्ना जलधिकल्लोलमश्वं प्रैषीत् सुतोचितम् ॥४०॥
त्यक्तक्रीडः समारोहत् कुमारस्तं हयं यत् । चलाचलनमात्रेणोत्प्लुत्य दूरं गतः स तु ॥४१॥ चलन् सनत्कुमारोऽथ, निरुणद्धि यथा Mat यथा । शिक्षायां विपरीतोऽश्वः, स धावति तथा तथा ॥४२॥ अन्वयासीत् कुमाराश्वमश्वसेनोऽश्वसेनया । तदा चपात्यया सत्या Mo४
68Q8

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194