Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री
नव्रज्या ०
श्रीप्रद्यु
नयवृत्ती
॥८७॥
नत्वा तं प्रभो ! पाणिं गृहाण मे ॥२०॥ निषिद्धा मुनिना मुन्या कृतिना हानिना । परिणयासिल रात्रि, विहाय च समुज्झिता ||२२|| | तन्मन्वा पृच्छति स्मार्ती, नृपः स्मार्त्तान् वितीर्यते । कस्येयं ? ते जगुस्त्यक्तामृपिपत्नीं द्विजोऽर्हति ॥२२॥ द्विजाय नरदेवाऽथ रुद्र-देवपुरोधसे । ददौ तां स तया धर्म्मपत्न्याऽमा यजमिष्टवान् ||२३|| स मासक्षपको भिक्षुर्भिक्षार्थी यक्षसेवितः । यज्ञवाटागतश्चंडैर्बटुभिश्चेति भाषितः ॥ २४ ॥ यज्ञवाटं प्रविष्टोऽसि, कस्त्वं ? यक्षो मुनिं श्रितः । कचेऽहं मुनिरायातो, भिक्षार्थी भवतां गृहान् ॥ २५ ॥ तेऽप्यूचुर्वेप्रमन्नं न, तुभ्यं शूद्राय दीयते। सोऽवोचद्दीयतां मह्यं धर्म्मार्थ समताजुषे ॥ २६ ॥ ते प्रोचुर्देवपित्रग्निब्राह्मणेभ्यो वित्तीयते । सफलं तत्र दत्तं स्यादत्तं तु त्वादृशां वृथा ||२७|| वह्नौ हुतेन देवानां पितॄणां विप्रभोजनैः । तृतिर्भवति गीरेषा, विदुषा केन मन्यते ? ॥ २८ ॥ ब्राह्मणान्त्यजयोर्तेव, जन्मना किंचिदन्तरम् । कषायेन्द्रियजेता तु कर्म्मणा ब्राह्मणो मतः ॥ २९ ॥ तथ्यं न वित्थ ब्राह्मण्यं धिग्वो मूर्खानिति ब्रुवन् । मुनिर्निहन्तुमारब्धो, बहुभिर्लेष्टुयष्टिमिः ॥ ३० ॥ विशेषकम् ॥ रुधिरं वमतो बीक्ष्य, मुखेन मुनिघातिनः । यक्षेण पातितान् शूद्रान्निश्व ष्टान् भद्रयोदितम् ॥ ३१॥ येनाहं तातदत्ताऽपि तदा तृणवदुज्झिता । स एष बन्द्यो देवानां, मुनिर्मूढाः ! खलीकृतः ॥ ३२ ॥ अमुमेव प्रपद्यध्वं, शरणं जीवितेच्छवः । मा कुरुध्वं महामूढाः 1, शिरसा गिरिभेदनम् ॥३३॥ महर्षी रुद्रदेवेन, क्षमितः सद्विजेन सः । प्रत्यलाभि तथाब्वन्नैर्बटवः | पटवोऽभवन् ॥ ३४ ॥ रुद्रदेवो मुर्ति प्राह, ब्राह्मण्यं ख्याहि मे प्रभो ! । कषायेन्द्रियजेतृत्वं ब्राह्मण्यं मुनिराख्यत ॥ ३५ ॥ होमैः सर्वाश्रवान् हुत्वा, संवरस्नानसादराः । भवन्ति ब्राह्मणाः सिद्धिवधू संबन्धबन्धुराः ॥ ३६ ॥ बहूनां प्रतिबोधोऽभून् मुनिदेशनयाऽनया । असैत्सीद्धरिकेशस्तत् प्रधानं परमं तपः ॥ ३७॥
तपोविधानमपि क्षमासभायुक्तं मुक्तिफलदं भवति, तच्च गजसुकुमालदृष्टान्तेनोच्यते, तथाहि - 'ते भद्दिलपुरे नागसुलसागृहवर्द्धिताः । प्रत्येकं देवकीपुत्राः, प्रोर्द्वात्रिंशतं कनीः ॥ १ ॥ श्रीनेमिदेशना बुद्धा, व्रतं भेजुः षडप्यमी । द्वादशांगधरा जग्मुर्द्वारिकां स्वामिना समम् ॥ २॥ ते त्रिधा युग्मिनो भूत्वा, भिक्षार्थं प्राविशन् पुरीम् । तेषु च प्रथमं युग्मं, देवकीगृहमागतम् ॥१३॥ तद्वीक्ष्य कृष्णतुल्यं सा, प्रमोदात् मोदकानदात् । गते तत्र द्वितीयं चायातं सा प्रत्यलाभयत् ॥४॥ तस्मिन् गते तृतीयं चागतं पप्रच्छ देवकी । दिग्मोहो वां कथं यत् । त्रिर्व्यावृत्यात्रागतौ युवाम् ? ॥५॥ पुर्या त्रविष्टपस्पर्द्धिसमृद्धिभरभाज्यपि । यतयः प्रासुकं वस्तु, लभन्तेऽन्यत्र किं न वा
८

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194