Book Title: Pravrujyavidhankulama
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री
ब्रज्या०
प्रधु
यवृत्ती
९५॥
॥ १३१ ॥ अनित्यत्वं पदार्थानां मृत्योरशरणं तथा । संसारस्य च वैचित्र्यमेकत्वं कर्म्ममर्पण ॥ १३२ ॥ जीवस्यांगस्य चान्यत्वमशांचं च शरीरके | आश्रवं कर्म्मणां तेषां संवरं कर्मनिर्जराम् ॥ १३३॥ धर्म्मवाख्याततां लोके, बोधिदुर्लभतामपि । भावना भावये मंत्र्यादिवया अपि | चतुर्भिताः ॥ १३४ ॥ संघं धर्मं गुरुं नाथं, पितरौ सुहृदं रिपुम् । सधर्म्म वा विधवा, खेदितं क्षमयाम्यहम् ॥ १३५ ॥ स्वं कम् मुज्यते कांऽपि नोपकार्यपकार्यपि । तत्तयोस्तोषरोपौ किं ?, क्षाम्यामि क्षमयामि तौ ॥ १३६|| क्षमयाम्यखिलान् जीवान्, सर्वे क्षाम्यन्तु ते मयि । तेषु सर्वेषु मैत्री मे, विरोधो न च केनचित् ॥ १३७॥ येन मेरुमितेनापि, तृमिर्जन्तोर्न जायते । षड्जीवकायघातेन, यस्योत्पत्तिश्च निश्चिता ॥ १३८ ॥ यः सुप्रायो यथौचित्यं चतुर्गतिभवे भवे । तं चतुर्विधमाहारं त्यज त्वं तन्वरागतः ॥ १३९ ॥ युग्मम् || पापीयानपि यं प्राप्य, प्रान्ते देवगतिं ब्रजेत् । दुर्लभो यश्व चक्रित्वदेवत्वेभ्योऽपि जन्मिनाम् ॥१४०॥ यस्मात् मुख्यानि सौख्यानि, भवाब्धिर्गोष्पदं यतः । तं स्मरामि नमस्कारं पञ्चानां परमेष्ठिनाम् ॥ १४१ ॥ युग्मम् || विधायाराधनामित्थं प्राणतेऽजनि निर्जरः । पुष्पोत्तरविमानेऽसौ, विंशत्ये| तरजीवितः ॥ १४२ ॥ जम्बूद्वीपेऽत्र भरते, ग्रामे ब्राह्मणकुण्डके । विप्रस्यर्षभदत्तस्य, देवानन्दाऽस्ति गेहिनी ॥१४३॥ तस्याः कुक्षौ शुचेः शुक्लषष्ठ्यां हस्तोत्तरर्क्षगे । चन्द्रे नन्दनजीवोऽवततार प्राणताच्च्युतः ॥ १४४॥ तया मुखे विशन्तश्च दृष्टाः स्वप्नाश्चतुर्दृश । ततः प्रभृति तद् गेहं जातिमद्यद्विभूति च ॥ १४५॥ प्रभोर्नीचकुलोत्पत्तिं, तदा कुलमदार्जिताम् । विज्ञायावधिना शक्रो, नैगमेषिणमादिशत् ॥ १४६ ॥ पुरे क्षत्रियकुण्डग्रामनामन्यस्ति विश्रुतः । सिद्धार्थः पार्थिवः शौर्यनिर्जितारातिपार्थिवः ॥ १४७ ॥ जिष्णोः श्रीरिव तस्यास्ति, प्रिया जिनमतप्रिया | त्रिशलाख्या शलाकेव, स्त्रीषु शीलवतीषु या ॥१४८॥ तत्कुक्षाववतीर्णाऽस्ति पुत्रिका त्वं विधेहि तत् । परस्परविपर्यासमनयोर्गर्भयोर्द्वयोः ॥ १४९ ॥ अयं हि नः समाचारः, पूर्वकर्म्मवशाज्जिनः । यन्नीचकुलमायातो, नीयते ह्युत्तमे कुले ॥ १५०॥ नयैनं त्रिशलाकुक्षौ द्विजीकुक्षौ च पुत्रिकाम् । मणिस्त्रपुणि काचश्च न चाडुः काञ्चने क्वचित् ॥ १५१ ॥ नैगमेषीन्द्रनिर्देशाद्, द्व्यशीतिदिनमानकम् । कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते ॥ १५२ ॥ पुत्रीं धूलिमिवाकृष्य, देवानन्दां प्रति क्षिपन् । तत्कुक्षिशुक्तितो धामनिधानं स्वामिनं न्यधात् ॥ १५३॥ युग्मम् ॥ एकाऽऽस्यान्निर्यतः स्वप्रानपरा विशतो मुखे । चतुर्दश निशम्यैतान्, क्रमादाप शुचं मुदाम् ॥ १५४॥ सौधर्मेन्द्रसमादिष्टमपरैरतिदुष्करम् । दिव्यशक्त्या विधायेदं, नैगमेष्यगमद्दिवम् ॥ १५५ ॥ गर्भायति प्रभौ स्वर्णरत्नवृष्टिं वितेनिरे । तदानी जृम्भका देवाः, पितरौ दध्यतुस्ततः
॥९५

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194