________________
श्री
ब्रज्या०
प्रधु
यवृत्ती
९५॥
॥ १३१ ॥ अनित्यत्वं पदार्थानां मृत्योरशरणं तथा । संसारस्य च वैचित्र्यमेकत्वं कर्म्ममर्पण ॥ १३२ ॥ जीवस्यांगस्य चान्यत्वमशांचं च शरीरके | आश्रवं कर्म्मणां तेषां संवरं कर्मनिर्जराम् ॥ १३३॥ धर्म्मवाख्याततां लोके, बोधिदुर्लभतामपि । भावना भावये मंत्र्यादिवया अपि | चतुर्भिताः ॥ १३४ ॥ संघं धर्मं गुरुं नाथं, पितरौ सुहृदं रिपुम् । सधर्म्म वा विधवा, खेदितं क्षमयाम्यहम् ॥ १३५ ॥ स्वं कम् मुज्यते कांऽपि नोपकार्यपकार्यपि । तत्तयोस्तोषरोपौ किं ?, क्षाम्यामि क्षमयामि तौ ॥ १३६|| क्षमयाम्यखिलान् जीवान्, सर्वे क्षाम्यन्तु ते मयि । तेषु सर्वेषु मैत्री मे, विरोधो न च केनचित् ॥ १३७॥ येन मेरुमितेनापि, तृमिर्जन्तोर्न जायते । षड्जीवकायघातेन, यस्योत्पत्तिश्च निश्चिता ॥ १३८ ॥ यः सुप्रायो यथौचित्यं चतुर्गतिभवे भवे । तं चतुर्विधमाहारं त्यज त्वं तन्वरागतः ॥ १३९ ॥ युग्मम् || पापीयानपि यं प्राप्य, प्रान्ते देवगतिं ब्रजेत् । दुर्लभो यश्व चक्रित्वदेवत्वेभ्योऽपि जन्मिनाम् ॥१४०॥ यस्मात् मुख्यानि सौख्यानि, भवाब्धिर्गोष्पदं यतः । तं स्मरामि नमस्कारं पञ्चानां परमेष्ठिनाम् ॥ १४१ ॥ युग्मम् || विधायाराधनामित्थं प्राणतेऽजनि निर्जरः । पुष्पोत्तरविमानेऽसौ, विंशत्ये| तरजीवितः ॥ १४२ ॥ जम्बूद्वीपेऽत्र भरते, ग्रामे ब्राह्मणकुण्डके । विप्रस्यर्षभदत्तस्य, देवानन्दाऽस्ति गेहिनी ॥१४३॥ तस्याः कुक्षौ शुचेः शुक्लषष्ठ्यां हस्तोत्तरर्क्षगे । चन्द्रे नन्दनजीवोऽवततार प्राणताच्च्युतः ॥ १४४॥ तया मुखे विशन्तश्च दृष्टाः स्वप्नाश्चतुर्दृश । ततः प्रभृति तद् गेहं जातिमद्यद्विभूति च ॥ १४५॥ प्रभोर्नीचकुलोत्पत्तिं, तदा कुलमदार्जिताम् । विज्ञायावधिना शक्रो, नैगमेषिणमादिशत् ॥ १४६ ॥ पुरे क्षत्रियकुण्डग्रामनामन्यस्ति विश्रुतः । सिद्धार्थः पार्थिवः शौर्यनिर्जितारातिपार्थिवः ॥ १४७ ॥ जिष्णोः श्रीरिव तस्यास्ति, प्रिया जिनमतप्रिया | त्रिशलाख्या शलाकेव, स्त्रीषु शीलवतीषु या ॥१४८॥ तत्कुक्षाववतीर्णाऽस्ति पुत्रिका त्वं विधेहि तत् । परस्परविपर्यासमनयोर्गर्भयोर्द्वयोः ॥ १४९ ॥ अयं हि नः समाचारः, पूर्वकर्म्मवशाज्जिनः । यन्नीचकुलमायातो, नीयते ह्युत्तमे कुले ॥ १५०॥ नयैनं त्रिशलाकुक्षौ द्विजीकुक्षौ च पुत्रिकाम् । मणिस्त्रपुणि काचश्च न चाडुः काञ्चने क्वचित् ॥ १५१ ॥ नैगमेषीन्द्रनिर्देशाद्, द्व्यशीतिदिनमानकम् । कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते ॥ १५२ ॥ पुत्रीं धूलिमिवाकृष्य, देवानन्दां प्रति क्षिपन् । तत्कुक्षिशुक्तितो धामनिधानं स्वामिनं न्यधात् ॥ १५३॥ युग्मम् ॥ एकाऽऽस्यान्निर्यतः स्वप्रानपरा विशतो मुखे । चतुर्दश निशम्यैतान्, क्रमादाप शुचं मुदाम् ॥ १५४॥ सौधर्मेन्द्रसमादिष्टमपरैरतिदुष्करम् । दिव्यशक्त्या विधायेदं, नैगमेष्यगमद्दिवम् ॥ १५५ ॥ गर्भायति प्रभौ स्वर्णरत्नवृष्टिं वितेनिरे । तदानी जृम्भका देवाः, पितरौ दध्यतुस्ततः
॥९५