Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 10
________________ ॥श्रीजिनाय नमः॥ श्रीमन्नेमिचन्द्रसूरिप्रवरनिर्मितःप्रवचनसारोद्धारः। श्रीमद्देवभद्रान्तिपच्छ्रीमत्सिद्धसेनसूरिसूत्रिततत्त्वज्ञानविकाशिनीटीकायुक्तः प्रारभ्यते । सन्नद्धैरपि यत्तमोमिरखिलैर्न स्पृश्यते कुत्रचिचञ्चत्कालकलामिरप्यनुकलं यन्नीयते न क्षयम् । तेजोमिः स्फुरितैः परैरपि हठादाक्रम्यते यन्न तज्जैनं सर्वजगत्प्रकाशनपटु ज्योतिः परं मन्दतु ॥ १ ॥ यो ध्यानेन निमूलकाषमकषद् द्वेषादिविद्वेषिणो, सबैलोक्यविलोकनकरसिकं ज्योतिः किमप्यातनोत् । यः सद्भतमशेषमर्थमवदत् दुर्वादिवित्रासकदेवार्यः शिवतातिरस्तु स विमुः श्रीवर्धमानः सताम् ॥ २॥ ____ स्वगुरूणामादेशं चिन्तामणिसोदरं समासाद्य । श्रेयस्कृते करोमि प्रवचनसारस्य वृत्तिमिमाम् ॥ ३॥.. इह हि शिष्टाः कचिदभीष्टे शास्त्रप्रकरणादिवस्तुनि प्रवर्तमानाः श्रेयस्काम्यया विशिष्टाभीष्टदेवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते, सच यद्यपि कायमनोभ्यामपि क्रियमाणो निखिलविलसद्विघ्नविनाशकत्वेन प्रारिप्सितशास्त्रप्रकरणादिपरिसमाप्तये सम्पनीपद्यते तथापि शास्त्रादौ श्रोतारः सर्वेऽपि शास्त्रादिश्रवणरसिकान्तःकरणाः सकलविघ्नसातविघातनिमित्तमवश्यममिमतदेवतास्तवामिधानपूर्वमेव प्रवर्तन्तामिति श्रोतृणामभीष्टदेवतास्तवविषयमनीषोन्मेषपरिग्रहार्थमादाविष्टदेवतास्तवोऽमिधेयः, तथा यत्किमपि शास्त्र प्रकरणादि वा कर्तुमिष्यते तत्रावश्यमादौ प्रेक्षावतां प्रवृत्त्यर्थमभिधेयममिधातव्यं इतरथा किमत्र शास्त्रे प्रकरणादौ वाऽभिधेयमिति संशयाना न तत्र ते प्रवर्तेरन् , वदेयुश्च यथा-नाऽऽरब्धव्यमिदं शत्रं प्रकरणादि वा अमिधेयशून्यत्वात् काकदन्तपरीक्षावदिति, यदाहुः- श्रुत्वाऽमिधेयं शास्त्रादौ, पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तन्ते, तजिज्ञासादिनोदिताः ॥ १॥ नाऽश्रुत्वा विपरीतं वा, श्रुत्वाऽऽलोचितकारिणः । काकदन्त्रपरीक्षादौ, प्रवर्तन्ते कदाचन ॥२॥" इत्यादि, तथा अभिहितेऽप्यमिधेये न प्रयोजनश्रवणमन्तरेण सहृदयास्तदाद्रियन्ते, प्रेक्षावत्ताक्षतिप्रसंगात "प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तिश्चेवेतन्येनास्य किं भवेत्॥१॥" अभिदध्युश्च ते यथा-नाऽऽरम्भणीयमिदं शाखं प्रयोजनशून्यत्वात्कण्टकशाखामर्दनवदिति, ततः शास्त्रप्रकरणादिप्रारम्भप्रयासनिष्फलताशवाशङ्कसमुद्धरणाय शास्त्रप्रकरणादौ प्रयोजनमपि वक्तव्यं, तथा प्रयोजने दर्शितेऽपि न परम्परया सर्वज्ञमूलताऽवगतिमन्तरेण विविधातीन्द्रियार्थसार्थप्रतिपादके शाखादी सुधियः प्रवृत्तिमातन्वीरन् , प्रतिपादयेयुश्च ते यथा-नारम्भणीयमिदं शास्त्रादि सम्बन्धवन्ध्यत्वात् स्वेच्छाविरचितशासवविति, ततस्तेषां शास्त्रप्रकरणादिप्रवृत्तौ विशिष्टादरनिमित्तं परम्परयाईन्मूलताख्यापनार्थमादौ गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि वक्तव्य इत्यादि परिभाब्य प्रेक्षावतां प्रवृत्त्यर्थ पूर्वप्रयुक्तप्रयोगाणां चासिद्धतादिदोषोद्भावनार्थमिमामादिगाथामाह नमिऊण जुगाइजिणं वोच्छं भव्वाण जाणणनिमित्तं । पवयणसारुद्धारं गुरुवएसा समासेणं ॥१॥ अत्र च नरिनृत्यमानमानसवृत्तयः सौगताः सङ्गिरन्ते-नन्विदं भवतां गेहेनर्दितमिव प्रतिभासते, यतः सर्वमेवेदं भवद्भिः कथ्यमानं शोभते यदि शब्दार्थयोः कश्चित्सम्बन्धो भवेत् , न चासौ विचार्यमाणश्चारिमाणमञ्चति, द्विविधो हि सम्बन्धः-तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च, तत्र न तावच्छब्दार्थयोस्तादात्म्यलक्षणः सम्बन्धः, स हि य एवार्थः स एव शब्दो य एव शब्दः स एवार्थ इत्येवं भवेत् , एवं च . मोदकादिशब्दोच्चारणे मोदकादिना मुखपूरणं भवेत् क्षुरिकादिशब्दोच्चारणे च वदनपाटनादिकं सम्पयेत, ततस्तावदसौ शब्दार्थयोर्न घटामटाट्यते, न तदुत्पत्तिलक्षणोऽपि सम्बन्धः झोदं क्षमते, तथाहि-कि शब्दादर्थ उत्पद्यते ? अर्थाद्वा शब्द इति ?, तत्र न तावच्छब्दादर्थ उत्पद्यते, घटादयो हि मृदादिभ्य एवोत्पद्यमाना वीक्ष्यन्ते, न शब्दादिति, यदि तु शब्दादपि घटादयो भावा भवेयुस्तदा न मृदादिपरिशीलनलेशमनुभवेयुः कुम्भकारादयः, नाप्यर्थाच्छब्दोत्पत्तिः, ताल्वोष्टपुटदन्तादिभ्यः पुरुषप्रयनसहितेभ्य एव शब्दोत्पत्तिदर्शनात् , ततः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धद्वयाभावेनाऽऽदिवाक्यमभिधेयादिसूचकं निरर्थकमेवेति, तत्र ब्रूमः-अनभ्युपगतोपालम्भेन कण्ठशोषछेशमनुभवद्भिर्भवद्भिरेवमात्मा निरर्थकमेव कदर्थितः, न खल्वस्मामिः शब्दार्थयोस्तादात्म्यतदुत्पत्तिलक्षणः सम्बन्ध इष्यते, किन्तु सर्वसहृदयसम्मतो वाच्यवाचकभावलक्षण एव, तत्र च न किञ्चिद्विरुध्यते, यदि च शब्दस्य प्रामाण्यं नाभ्युपगम्यते तदा लानामखिलव्यवहाराणामुच्छेदः स्यात् , उक्तं हि-"लौकिकव्यवहारोऽपि, न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिबन्धनम् ॥१॥” इति, अत्र च बहु वक्तव्यं तत्तु नोच्यते प्रन्थगौरवमयादिति । तत्र 'नमिऊण' नत्वा 'युगादिजिन' युग-एतदवसर्पिणीरूपः कालविशेषस्तत्र आदीयत इत्यादिः-प्रथमः स चासौ जिनश्च-रागद्वेषादिदुर्जयारातिजेता तं ऋषभदेवस्वामिनमित्यर्थः, भवति हि प्रौढ

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 310