Book Title: Prastavana Trayi
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४]
[ शोभनस्तुतेः
धनपालाय तद्विद्याचमत्कृतः स 'सिद्धसारस्वत' इति विरुदं दत्तवान् । धनपालभोजयोमित्रभाव आसीत् । भोजराजस्य राज्यसत्तासमयस्तु वि. सं. सप्तषष्ट्युत्तरसहस्रमारभ्य ( १०६७) एकादशाधिकैकादशशत (११११) पर्यन्तमभूत् ।।
श्रीशोभनमुनेरुपदेशतः संप्राप्तजैनधी धनपालस्तिलकमञ्जरीमपरां कादम्बरीमिव रचितवान् । तद्वचनरचनाऽतीव माधुर्यमावहति ।
वचनं धनपालस्य, चन्दनं मलयस्य च। सरसं हृदि विन्यस्य, कोऽभून्नाम न निर्वृतः ॥१॥
(प्रबन्धचिन्तामणौ ) वादिवेतालश्रीशान्तिसूरिभिस्तिलकमञ्जरी संशोधिता, टिप्पण्या च समलङ्कृता । महेन्द्रसूरिकवीन्द्रश्रीशान्तिसूरिसुराचार्यप्रभृतीनां जैनाचार्याणां परिचितोऽभू. द्धनपालः । श्रीऋषभदेवप्रासादस्तेन निर्मापितः, तत्प्रतिष्ठा श्रीशोभनमुनिना तद्गुरूणा महेन्द्रसूरिणा च विहिता। धनपालकविवरः सत्यपुरे ( साचोरपुरे) केनचित्कारणेन कियत्समयं वसन् श्रीमहावीरस्वामिसेवापरायणः कालं व्यनयत् । आयुषोन्तेऽसौ महेन्द्रसूरिसन्निधौ संलेखनां विधाय गृहस्थाश्रमी सन् स्वर्गभागभूत् ।
अयं धनपालपण्डितो ज्योर्विदप्यासीत् । तथा चोक्तं प्रबन्धचिन्तामणौ" अथ कस्मिन्नप्यवसरे नरेश्वरः ( भोज: ) सरस्वतीकण्ठाभरणप्रासादे व्रजन् सदा सर्वज्ञशासनप्रशंसापरं पण्डितं धनपालमालपत्-' सर्वज्ञस्तावत्कदाचिदासीत् तदर्शने साम्प्रतं कश्चिज्ज्ञानातिशयोऽस्ति' इत्यभिहिते 'अर्हत्कृतेऽर्हच्चूडामणिप्रन्थे' विश्वत्रयस्य त्रिकालवस्तुविषयस्वरूपपरिझानमद्याऽपि विद्यते ' इति तेनोक्ते त्रिद्वारमण्डपे स्थितः कस्मिन् द्वारेऽस्माकं निर्गमः ' इति शास्त्रकलङ्कारोपणोद्यते नृपे 'बुद्धिमात्रा त्रयोदशी' इति पाठं सत्यापयता भूर्जपत्रे नृपप्रश्ननिर्णयमालिख्य मृण्मयगोलके निधाय च छगलिकाधरस्य तं समर्प्य देव ? पादोऽवधार्यताम् इति नृपं प्राह 'तद्बुद्धिसंकटे निपतितं खं मन्यमान एतद् द्वारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यति' इति विमृश्य सूत्रभृद्भिर्मण्डपपद्मशिलातलमपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्त्वा तेष्वक्षरेषु तमेव निर्गमनिर्णयं वाचयंस्तत्कौतुकोत्ताल. चित्तः श्रीजिनशासनमेव प्रशशंस । तथाहिद्वाभ्यां यन्न हरिस्त्रिभिन च हरः सृष्टा न चैवाष्टभि
र्यन्न द्वादशभिर्गुहो न दशकद्वन्द्वेन लङ्कापतिः । यन्नेन्द्रो दशभिः शतैर्न जनता नेत्रैरसंख्यैरपि,
तत्प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥१॥"
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102