Book Title: Prastavana Trayi
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०] [ शोभनस्तुतेः मालवदेशे साधुविहारनिषेधस्तदानी महेन्द्रसूरिः शोभनमुनिश्च गुर्जरदेशेऽभूताम् । गुरुणा जैनसिद्धान्तं पाठयित्वा शोभनमुनये वाचनाचार्यपदवी प्रदत्ता, यः गुणाकरत्त्वात् सुरेन्द्रस्याऽपि स्तवनीयोऽभूत् । इत्थं प्रबंधकारो विज्ञापयति-तस्मिन् समये शोभनमुनिरतीव विद्वानासीत ! सौभाग्यसागरसूरिः शोभनस्तुतेष्टीकां निर्मितवान्-सोऽपि प्रस्तौति " शोभनः सर्वशास्त्रेषु, शोभनः स्तुत्यकीर्तिभाक् । विदुषां माननीयश्चाऽप्रमेयकविशक्तिभाक् ॥१॥" शोभनमुनि विद्वत्तमं विज्ञाय तद्गुरुस्तस्मै सूरिपदं समर्पितवान्। ततो मुनिदर्शनविरहादुपदेशाभावाच्च जैनशासनस्य लघुतां विदित्वा धारासंघेन श्रीमहेन्द्रसूरिरभ्यर्थितः, भगवन् ! मुनिविहारनिषेधो दूरीकर्तव्यः । आचार्येण जैनशास्त्रनिष्णातः शोभनमुनिस्तत्र गमनायाऽऽज्ञप्तः । धनपालः प्रतिबोद्धव्यो जैनशासनोन्नतिश्च विधातव्येति कार्यद्वयचिकीर्षुणा तेन प्रागेव वाक्चातुर्यतश्चारित्रबलेन शासनप्रभावेण च तत्कार्यं साधितम् । ततो धनपालं विशुद्धं श्राद्धं विधाय मालवदेशे मुनिविहारं स प्रावर्तयत् । तेन धनपालेन समयोचितोक्त्या भोजराजो मृगयाव्यसनपराङ्मुखी कृतः । वैक्रमैकादशशताब्द्याश्वरमभागे विद्यमानोऽयं मुनिः कदा स्वर्गस्थोऽभूदिति विज्ञानसाधनं लब्धपूर्व नासीत् । अतस्तदत्र न निश्चीयते । परन्त्वस्याः स्तुतेर्धनपालकृतटीकाया अवतरगतो ज्ञायते-- असौ स्तुतिकारो धनपालस्यानुजस्तेन मुनिना ज्येष्ठबन्धुं धनपालं परमाहतं विधाय पश्चादणहिल्लपुरे शोभनस्तुतिर्निरमायि । विद्यमाने . (१) पट्टणपुरे प्रायः स्थितिमन्तौ, तदानीं श्रीभीमदेवस्य राज्याधिकारो वि० सं० ( १०७८-११२० ) अष्टसप्तत्युत्तरसहस्रमारभ्य विंशत्युतरैकादशशत. परिमितो बभूव । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102