Book Title: Prastavana Trayi
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ [ अजितसागरसूरे: सफलीकर्त्तुं व्यचिन्तयत् । तस्मिन्समये दैवनियोगात्तन्मातापितरौ पञ्चत्त्वं गतौ, भवस्वरूपमेतादृशमेव -- उत्पद्यते कर्मनिबद्धजन्तु - र्विलीयतेऽसौ किल कर्मयोगात् । सुखं च दुःखश्च चलस्वभावं प्रकीर्त्तितं चक्रवदत्र लोके ॥ १ ॥ संसारवासः खलु सारहीनो, निःसारसेवा बहुदुःखखानिः । एकस्य दुःखस्य न यावदन्त-स्तावद् द्वितीयं निपतत्यकाण्डम् | २| इत्थं संसारस्थिति परिभाव्य षट्पञ्चाशदधिकैकोनविंशतितमे वैक्रमाब्दे स्थानकवासिसाधूनां समागमं प्राप्य विरक्तमनाः स तेषां सन्निधौ दीक्षामङ्गीकृतवान् । अमीऋषेति नामनिर्देशं जग्मिवान् । ततो गुरुभिः सह तेन महाराष्ट्र - खानदेश - कर्णाटक-‍ हिन्दुस्तानप्रभृतिषु देशेषु विहारो व्यधायि, तत्रत्यजनाः प्रबोधिताश्च निजबुद्धिवैभवेन । - मालव-मध्य अनेकधा धर्मशास्त्राणां विविधभाषाणां चाभ्यासस्तेन विहितः । ततोऽनेकविदुषां मुनीनां महात्मनाञ्च समागमं कुर्वाणः स सम्यग् ज्ञानाऽनुभवं प्रापत् । ततस्तस्य स्थानकवासि मुनीनां परिचयो जातस्तत्र मूर्त्तिपूजनं सर्वथा न्यषेधि, तच्च तस्मै निजज्ञानाऽनुभवानारोचत, शास्त्रोक्तैतिहासिकप्रमाणैश्च तेन विज्ञातम् - द्वात्रिंशत्सूत्रसूत्रितमेव माननीयं नान्यदितिमर्यादा भ्रमजनका तैर्मूर्त्तिपूजां खण्डयितुङ्गीकृताऽस्ति । तत्सम्बन्धिशङ्कासमाधानं तन्मतावलम्बिना तेन नाऽऽसादि । केचित्तन्मतानुयायिनस्तदीयशङ्काः श्रुत्वा हास्यास्पदीचक्रुः, केचित्तूष्णीं बभूवुः, अपरे च मिथ्या श्रद्धाशीलनत्वेनैव जीवनं निर्वाहयितुं उपदिदिशुः । तेन सत्यशोधक: स नातुष्यत् । ततस्तेन विजिज्ञासुना - अध्यात्मज्ञानदिवाकर योगनिष्ठाचार्यश्रीमदबुद्धिसागरसूरीश्वरैः साकं पत्रव्यवहारः प्रारभ्यत, क्रमेण च प्रभोत्तर सन्तानेन बहुधा शङ्कासमाधानमजनिष्ट, ततः स्वयमेव स For Private And Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102