Book Title: Prastavana Trayi
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीअर्बुदगिरिराजदर्शनम् ।
नानागह्वरराजिराजितवपुर्विश्रामभूमिः सतां,
निर्मानप्रथिताम्बुपानविलसद्धीनां गणैर्नादितः । विक्षोभक्षुभितात्मनामपि सदाऽऽनन्दप्रदानक्षमः,
श्रीमानर्बुदभूधरो गिरिवरो राजत्यखण्डप्रभः ॥१॥ दूराद्दर्शनतां गतो जनिमतां जीमूतशङ्काप्रदः,
सान्निध्यं भजतां गिरीन्द्रतुलनां विस्तारयत्यञ्जसा । आरूढोपरिभूमिभासुरधियां धात्रीभ्रमोद्दीपकः,
श्रीमानर्बुदभूधरो गिरिवरो राजत्यखण्डप्रभः ॥२॥ योग्यो योगिगणस्य निष्ठितमतेः सेव्यः सदा धीमतां,
तप्तानां सुखशान्तिसन्ततिकरः सन्तापतो देहिनाम् । काम्यः कर्मजुषां विशिष्टमनसां सिद्धिप्रयोगार्थिनां,
श्रीमानबुंदमूधरो गिरिवरो राजत्यखण्डप्रभः ॥ ३ ॥ विथामस्थलमद्भुतं वनलतावृन्दस्य रुग्हारिणो
दीर्घाऽऽरोग्यविधानविश्रुतयशादीव्यौषधीनां गणः । सौरभ्यं कलयन्मनोहरमहोद्यानबजो यत्र स
श्रीमानर्बुदभूधरो गिरिवरो राजत्यखण्डप्रभः ॥४॥ यस्मिन्नक्षयशान्तिदानरुचिराऽमन्दप्रभाभासुरः,
श्रीमन्नाभिमहीपसूनुरनधो मोक्षार्थिनां मोक्षदः । भव्यानां भवविघ्नवारदलनः सद्भक्तिभाजां नृणामाद्यस्तीर्थकृतां सदा विजयते विज्ञातनैकान्तकः ॥५॥
For Private And Personal Use Only

Page Navigation
1 ... 99 100 101 102