Book Title: Prastavana Trayi
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी
कादम्बरीसहोदर्या, सुधया वैवुधे हृदि । हर्षोख्यायिकया ख्याति, बाणोब्धिरिव लब्धवान् ॥ २७ ॥ माघेन विनितोत्साहा-नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव, कवयः कपयो यथा ॥ २८ ।।
व्याख्यार्थः-माघेन-माघकविना, पक्षे माघमासा, विनित उत्साहो येषां ते तथाभूताः कवयः, कपय इव पदक्रमे-काव्यरचनायां, पक्षे चरणानां विन्यासे, नोत्सहन्ते उत्साहं न कुर्वन्ति, अपि च भारवेः--भारविकवेः, पक्षे सूर्यस्य, भाः-किरणानेव स्मरन्ति ॥२८॥
निरोद्धं पार्यते केन, समरादित्यजन्मनः ।
प्रशमस्य वशीभूतं, समरादि त्यजन्मनः ॥ २९ ॥ व्याख्यार्थः-समरादित्यात्-समरादित्यनृपकथानकात् जन्मप्रादुर्भावो यस्य तथाभूतस्य प्रशमस्य-शान्तेर्वशीभूतं, समरादि-युद्धादि त्यजत्-परिहरत् मनश्चेतो निरोर्बु-वशीकर्तुं केन पार्यते-शक्यते !
स्पष्टभावरसा चित्रैः, पदन्यासैः प्रवर्तिता । नाटकेषु नटस्त्रीव, भारती भवभूतिना ॥ ३० ॥ दृष्ट्वा वाक्पतिराजस्य, शक्ति गौडवधोद्धराम् । बुद्धिः साध्वसरुद्धेव, वाचं न प्रतिपद्यते ॥ ३१ ॥ भद्रकीर्तेभ्रंमत्याशाः, कीर्तिस्तारागणाध्वनः । प्रभा ताराधिपस्येव, श्वेताम्बरशिरोमणेः ॥ ३२ ॥
१ माधुर्यादिना स्वोपज्ञकादम्बरीकथातुल्यया, पक्षे कादम्बा-मदिरायाः सहोदर्या ।
२ विबुधानां-पण्डितानां देवानाम्चेदं तस्मिन । ३ बन्नाम्ना आख्यायिकयाप्रमोदाख्यया च । ४ चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थकत्र्तृश्रीहरिभद्रसूरिरचिता समरादित्यकथा प्राकृताऽधुना मुद्रिता लभ्यते ।
५ बप्पभट्टराचार्यः पञ्च लंदशनिवासी । बापरतत्पिता, तन्माता च महिनाम्नी,
For Private And Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102