Book Title: Prastavana Trayi
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'प्रस्तावना ।] पित्रा वा तत्पूर्वजेन निधानीकृतं धनं दर्शितमिति विकल्पयन्ति केचन, यदि सांकाश्ये तद्धनं निहितं चेत्पूर्वजेन, तद्धारायां कथं संभाव्यते ? धारानगयाँ देवर्षिणैव गुप्तीकृतं संभाव्यते । अत्र च देवर्पिसम्बन्धस्तद्विषये प्रकाशितः । अतोऽन्ये मतभेदा नाऽत्र प्रदर्शिताः कारणशून्यत्त्वात् । इत्थं शोमनमुनिख्याति प्रदर्य तत्कृतिं स्तवीमि अस्यां शोभनस्तुतौ श्रीमदृषभादिचतुर्विंशतिजिनानां स्तुतयः षण्णवतिश्लोकपरिमिताः । प्रत्येकजिनस्तुतौ चत्त्वारि काव्यानि, तेषु प्रथमकाव्येन यस्य जिनस्य स्तुतिस्तत्स्तवना, द्वितीयस्मिन् चतुर्विंशतिजिनानां स्तुतिः, तृतीयस्मिन्नागमस्तुतिः चतुर्थे च काव्ये शासनरक्षकदेवस्तवनम् । इमाश्चतुर्विंशतिजिनानां स्तुतयोऽष्टादशधा छन्दोभिर्निबद्धाः छन्दःशास्त्रनियमोपेताः सर्वसौन्दर्यानपेताः कविप्रवरस्य पाण्डित्यं प्रकाशयन्ति । अधिष्टायकदेवीनामेव स्तुतिविहितेति न किन्त्वत्र श्रुतदेवताः षोडश विद्यादेव्यः अम्बिका-शान्तिदेवी ब्रह्मशान्तिकपर्दीयक्षाश्च स्तुताः शब्दाऽलङ्कारेष्वनेकधा यमका योजिताः, अनुप्रासानां घटनाऽप्युच्चतरा निवेशिता, विस्मयस्त्वेषः, प्रकृतशब्दानामुपयोगतः शब्दसौन्दर्यार्थसुगमत्वसम्पादने प्रयत्नो विहितः। अस्याः स्तुतेर्गौरवत्त्वन्त्विदमेव लक्ष्यते यन्यायाचार्य-न्यायविशारदश्रीमद्यशोविजयोपाध्याय ( 1 ) अहिगयजिणपढमथुई, बीआ सव्वाणतइयनाणस्स। वेयावच्चगराणं, उवओगत्थं चउत्थ थुई ॥ १ ॥ ( देववन्दनभाष्ये गाथा० ५२ ) ( २ ) श्री यशोविजयमहामहोपाध्यायविनिर्मितेन्द्रस्तुतिरिति काचिदलौकिका कविजनमनोहारिणी कृतिः । शोभनमुनिकृतजिनस्तुतिचतुर्विंशतिकाया अनुकृतितया विदुषां समाजे प्रसिद्धच्छन्दोऽलङ्कारैः क्वचिच्छब्दार्थैरपि जिनस्तुतिचतुर्विंशतिकया अस्या कृतेः सादृश्यं दरिदृश्यते । अत एव विदुषां प्रमोदाय अस्य ग्रन्थस्य परिशिष्टे मूलकृतिः संगृहीता। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102