Book Title: Prastavana Trayi
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना ।
Acharya Shri Kailassagarsuri Gyanmandir
1
"
" सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥ १ ॥ ( सन्मतिप्रकरणम् ) केपामविदितमेतच्छेमुषीमतां विद्वत्पुङ्गवानां श्रीशोभनमुनिविनिर्मिता जिनस्तुतिचतुर्विंशतिका शोभनस्तुत्यभिधेया स्तुतिप्रवरा सुजनचित्तचमत्कारिणी सहृदयहृदयहारिणी यमकादि विविधालङ्कारविभूषिता नैकधा छन्दःसन्दोहकरम्बिता काव्यमूर्द्धन्यतां बिभर्त्ति ।
अवचूरिकाकृदादिभिरस्याः स्तुतेः शोभनस्तुतिरिति व्यपदेशेन व्यवह्नतिर्व्यधायि, स्तुतिकारस्यास्य सम्पूर्ण जीवनाख्यानं नालभ्यत, यत्किञ्चनाऽवलम्बनमासाद्याऽत्र तद्दर्शयितव्यमिति नाऽसमञ्जसम्
श्रीशोभनस्य ज्येष्ठबन्धुना कविकुलललामभूतेन धनपालेनाऽपरै
For Private And Personal Use Only
१ श्री शोभनस्य कविकुलावतंसस्य ज्यायान्बन्धुर्धनपालोऽपि कविताकामिनीमसाधारण्या भक्त्या सिषेवे । सोऽपि महाकविरभूत् । तत्र हेतुश्चायम्, भगवता हेमचन्द्राचार्येणापि तस्य श्लोकाः स्वकीये काव्यानुशासनग्रन्थे वचन श्लेषस्यो - दाहरणत्वेन संग्रहीताः । स व्युत्पत्तिशास्त्रविशारदोऽपि बभूव यतः श्रीमद्भिर्हेमचन्द्राचार्यैरभिधानचिन्तामणिकोषटीकायां “ व्युत्पत्तिर्धनपालतः " एवंविध उल्लेखो विहितः । तेन बहवोऽसाधारणा ग्रन्था विरचिताः । तेषां विरचिता तिलकमञ्जरी, पाइयलच्छी नाममाला, ऋषभपञ्चाशिका, वीरस्तवः सावयविहिइत्यादि प्रथा उपलभ्यन्ते ।
मुनृपो ( श्रीवाक्पतिराजः ) भोजराजं कनीयांसं धनपालञ्च ज्येष्ठं सुतं मेने ।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102