Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
हेतुलक्षणम्
४८१ प्रयत्नोत्थत्वं शब्दे प्रसिद्धमेव। यथा बहुषु पिण्डेषु दृश्यमानेषु किमयमश्वो नति संशयोऽभिधीयते विशा( ? षा) णवानेष पिण्डो धर्मी नाश्वो विषाणित्वादिति । विषाणित्वं धर्मिणं विशेषयदपि प्रमाणप्रतीतत्वान्नासिद्धो हेतुः ।
साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् ।
विशेषोपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥१८८॥ अथवा विशेषणस्य प्रयत्नोत्थत्वादेस्तच्छब्दरूपं विशेष्यत्वेनोपलक्ष्यानुमानात् प्रागेव निवृत्तः (1) साध्यकालेऽनुमेयप्रतीते कालेऽङ्गता विशेषणता नास्त्येव अप्रतीतं ह्यनुमानात् प्रत्येतव्यं । प्रयत्नोत्थत्वादिति च प्रतीतं। न च तत्र विवादः । ततो धमिमात्रोपलक्षणन्तत् । यथा काको देवदत्तगृहोपलक्षणत्वान्न कार्योपयोगी (1) यद्यपि ' विशिष्ट धर्मिणि प्रतिज्ञार्थंकदेशत्वं हेतोः। तथा नित्यः
शब्दः श्रावणत्वादिति शब्दस्वभावभूतस्य श्रावणत्वस्य शब्दत्ववत् प्रतिज्ञार्थंक. देशता स्यात् नासाधारणतेत्याह। न केवलं विषाणित्वादिविशेषः श्रावणत्वादि- 97b रपि प्रतिज्ञार्थे'कदेशो न युज्यते। धर्मस्य व्यावृत्तेर्भेदात् । श्रावणत्वं श्रवणग्राह्यताऽश्रावणव्यावृत्तिः (1) तच्च शब्देपि क्वचित् कञ्चित् पुरुषमपेक्ष्य भवति । अशब्दव्यावृत्तिस्तु शब्दत्वं तच्च सर्वत्रास्ति ततो व्यावृत्तिभेदात् शब्दे सिद्धस्य श्रावणत्वस्यान्यत्राननुवृत्तेरसाधारणतैव युक्तेत्युक्तं सपरिकरं पक्षलक्षणम् ॥ __ इति पक्षलक्षण (म् ।)
६. हेतुचिन्ता
(२) हेतुलक्षणम्
म. पक्षधर्मप्रभेदकथने कारणम् हेतुलक्षणमिदानीम्वक्तव्यं । तत्र हेतुलक्षणमेव तत्र यः सन् सजातीये" इत्यादिकं युक्तं । वक्तुं। “सपक्षे सन्नसन् द्वधा पक्षधर्मः पुनस्त्रिघे"त्यादिना नवधा पक्षधर्मप्रभेदस्तु कस्मादुक्त २ इत्याह ।
पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये । हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥१८९॥
'यदि च। २समुच्च ये।
६१

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610