Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
५२५
परिशिष्टं (१) "परस्य प्रतिपाद्यत्वादि"त्या (४१)दि। परो हि किलावबोधयितुमिष्टो वादिना। स यदि स्वसिद्धेनोभयसिद्धेन वा वाद्यसिद्धेनापि स्वयमागमनसिद्धेनैव साध्यमवबोध्यते लिङ्गेन तदा वादिनः का क्षतिः(1) न हीयं राजाज्ञा उभयसिद्धेनैव साध्यं साधनीयमिति। पञ्चविंशतितत्त्वसंख्यानकुशलाः सांख्या ऊचुः बौद्धा न प्रति। अचेतनाः सुखादयो बुद्धिर्वा उत्पत्तनित्यत्वाद्वा रूपादिवदिति । बौद्धेन ह्यान्तराश्चिद्रूपाश्च सुखादयो बुद्धिश्चेष्टाः। असद्वादी च बौद्धोऽसदेवोत्पद्यते कारणवशेन कार्योत्पत्तेः (1) न हि कार्य स्वतन्त्रमुत्पद्यते निरन्वयञ्च नाशमिच्छति। सांख्यस्तु सद्वादी तस्य सदेव कार्यमुत्पद्यते बीजभावेन प्रागवस्थायामपि विद्यते (1) कार्यमाविर्भावस्तूत्पत्तिव्यक्तिरूप (:)तिरोभावस्तु विनाशः। स च सान्वयोऽन्वयिद्रव्यस्य विद्यमानत्वादिति पराभ्युपगतसाधनेनैव स्वाभिमतमचेतनत्वादिकं साधयतीति तदपनयार्थं स्वदृष्टग्रहणं । स्वयमिति वादिना। अदृष्टेपि न निश्चितः प्रमाणेनार्थ इति त्रिरूपं लिंङ्गं परैरिति प्रतिपाद्यतेऽनेन। आगमादिति. श्लोकेनुमातुमपि पर।
७-अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिरिव सत्वात्संगमेन प्रियायाः।
इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा।
%
(अभावः) ८-(११८५) अभावः । नैवाभावः कश्चित्सर्वेषां कथञ्चिद् भावादिति चेत्। a यथा तेन सन्तं सप्रकारोऽभावः । शशविषाणयोश्चायं भावात् शशविषाणाभाव- ... वादिनमुपहसन्नात्मानमेवोपहसति । शशावयवभूतं विषाणन्नास्तीत्यभिधातनिक: प्रस्तावः। शशोप्यस्ति विषाणञ्चेत्युत्तरस्य। न ह्ययं विषाणमात्रमपह्नते। यतस्तेन प्रतिरुध्येत किन्तु शशसम्बन्धि। यद्येवं सम्बन्धो नास्तीति वक्तव्यं न विषाणम्। किम्वै सम्बन्धमात्रं विशिष्यते। विषाणिनामपि विषाणेषु द्रव्यस्वभावः। स्वभावोपि प्रतिकार्य कारणभेदात् (1) तत्कोयं सम्बन्धाभावो वाच्य इत्युपालम्भः। अस्ति विषाणिनां विषाणस्वभावभेदो न तद्वत् किञ्चित् शशस्य भिन्नस्वभावं विषाणमिति चेत्। वयमप्येतदेव ब्रूमः। यो वा. सम्बन्धो नास्तीतीष्यते स एवाभावः। सम्बन्धी विद्यते न सम्बन्ध इति चेत् निपुणा वाचो युक्तिः । अङ्गीकृतसम्बन्धं द्रव्यमपि नेति चेत्। प्रियमनुष्ठितं यदीदमेव प्रथममभिधीयते

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610