Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 535
________________ दृश्यानुपलब्धिः सद्व्यवहारबाधिका तस्मादनुपलम्भोयं स्वयं प्रत्यक्षतो गतः । स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थितेः ॥ २७४॥ ५०९ तस्मादयं ज्ञानात्मकाऽनुपलम्भः स्वयमात्मना प्रत्यक्षतः स्वसम्वेदनाद् गतः प्रतीतः सन् स्वमात्रवृत्तेरात्ममात्रप्रतीतायास्तस्यानुपलभ्यमानस्याभावव्यवस्थितेर्गमकः । अनुपलम्भो हि निमित्तं १ विषयो वाऽभावव्यवहारस्येत्युभयचापि स्वसत्तामात्रेणाभावव्यवहारहेतुः । (२७४ ) ' [ अन्यथार्थस्य नास्तित्वं गम्यतेनुपलम्भतः । उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः ॥ २७५॥ अन्यथा यदि स्वतो नानुपलम्भसिद्धिस्तदाऽर्थस्य नास्तित्वमनुपलम्भस्ततो गम्यते (1) उपलम्भस्य नास्तित्वमनुपलब्धिरन्येनानुपलम्भेन गम्यते । सोप्यनुपलम्भान्तरेणेति अपेक्षायामनवस्थितिः स्यात् । (२७५) (५) दृश्यानुपलब्धिः सद्व्यवहारबाधिका भवतु तावद् दृश्येष्वनुपलब्धावभावप्रतीतिरदृश्ये पुनः कथमित्याह । ster निश्चयायोगात् स्थितिरन्यत्र बाध्यते । 'यथाऽलिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥२७६॥ अन्यत्र दृश्यानुपलब्धौ सत्यामदृश्ये विषयेऽभावनिश्चयायोगात् । सद्व्यवहारस्य स्थितिब्र्बाध्यते उपलम्भपूर्व्वकत्वात् तस्याः । यथाऽन्येषु सत्वेषु प्राणिषु रागादिविषयो विकल्प परचित्तज्ञानादिरादिनाऽलिङ्गो लिङ्गरहितः सदृद्व्यवहारविषयत्वेन न सिध्यति । ( २७६ ) किं पुनरदृश्यानुपलब्धौ सत्यामपि न सिध्यतीत्याह । अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने । एषा हि सत्यप्यर्थे सम्भवन्ती अभावस्यानिश्चयफला (1) तस्माद् व्यावृत्तेरभावस्य साधने नालं शक्ता । आद्याधिक्रियते हेतोनिश्चितेनैव साधने ॥ २७७॥ पुनर्व्यावृत्तिसाधनेऽधिक्रियते । कस्मादित्याह । आद्या दृश्यानुपलब्धिः १ ज्ञानेन निमित्तेन नैमित्तिको व्यवहारः साध्यः । अर्थो विषयोनुपलम्भश्चेद् विषयी व्यवहारः ।

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610