Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 542
________________ ५१६ प्र० वा० वृत्तौ० (४ परिच्छेदः) 2b २ - (१२) एतदाह (1) प्रमा ण स मु (च) योत्र शास्त्रकृता व्याख्यातुं प्रस्तुतस्तत्र प्रथमं तन्नमस्कारश्लोकाद्धं व्याख्यानार्हं द्वितीयपरिच्छेदेन व्याख्यातं । तृतीयपरिच्छेदेन तु प्रत्यक्षलक्षणं सप्रभेदमशेषविमतिनिराकरणेन यथास्वरूपतो विभक्तम् (1) अवसर प्राप्तमनुमानं (1) तच्च द्विधा (1) स्वार्थं परार्थञ्च (1) तत्राद्यमा (दा) वेव व्याख्यातं (1) प्रथमञ्च तद्द्याख्यानप्रयोजनमुक्तम'र्थानर्थविवेचनस्यानुमानायत्तत्वादित्यनेन प्रत्यक्षमपि "ह्यनु (मान) बलादेव प्रामाण्यं लभते" इत्यादि व्याख्यातं (1) व्याख्येयसूत्रन्त्व 'नुमानं द्विधा त्रिरूपलिङ्गतोर्थदृगित्यादिकं प्रमाणसमुच्चये द्वितीयपरिच्छेद उक्तं । तृतीयपरिच्छेदप्रोक्तन्तु " परार्थमनुमानं “स्वदृष्टार्थप्रकाशनमि”त्यादिकं वार्तिकचतुर्थपरिच्छेदेन व्याख्याय इत्ययमेव वार्तिकप्रथमादिपरिच्छेदानामनुक्रमनिर्देशः । वार्तिकञ्च विशेषाभिधानादिरूपं यथोक्तं " सूत्राणामनुपपत्तिचोदनात्तत्परिहारो विशेषाभिधानमिति लक्षणमयमेवार्थः परोक्तः । " सूत्राणान्दोषमुद्भाव्य परिहारो यत्र दीयते । विशेषचोदना चापि वार्तिकं तत्प्रकीर्तितमिति । समुच्चय सूत्रे स्वदृष्टार्थपदं व्याख्यातुं शास्त्रकृदाह । "परस्य प्रतिपाद्यत्वा" दित्यादि । सुवचार्थस्तु वृत्तावुच्यते । स्वार्थमिति स्वस्मै इदं स्वार्थमर्थेन न नित्यसमासः सर्वलिङ्गता चेति वाक्येन चतुर्थी समासः । स्वप्रयोजनमित्यर्थः । येन स्वयमनुमेयं प्रतिपद्यते ज्ञानेन तत्स्वार्थं (1) परस्मै इदं परार्थं येन परेभ्यः प्रतिपादयति त्रिरूपवचनेन तत्परार्थं । ननु प्रमाणमविसम्वादीत्युक्तं अनुमानञ्च प्रमाणं ज्ञानं स्यात्कथं वचनं न दोषः उपचारात् परमार्थतस्तु ज्ञानमेवात्रापि परिच्छेदकं त्रिरूपवचने तस्यैव सूचनात् (1) वचनेनैव हि परोवबोध्यते न ज्ञानेन (1) महती चात्र विमतिः परेषामितीदं विवेच्यते । स्वार्थानुमानमवसरप्राप्तमिति सङ्गत्यानन्तरं नेदिष्टत्वात्पूर्वमेवे " ति 22. प्रथमं भूतं पदद्वयं व्याचक्षाणेनान्वयव्यतिरेकविचारात्प्र मा ण स मुच्च यस्य चतुर्थपरिच्छेदो [ दृष्टान्तविचार उक्तोऽन्यापोहव्याख्यानेन पञ्चमपरिच्छेदोऽन्यापोहविचारः समर्थितः सर्वस्य विशेषणविशेष्यादिशाब्दव्यवहारस्यान्यापोह एव योगात् । "हेत्वाभासास्ततो पर" इत्यनेन तु हेत्वाभासविचारः षष्ठः परिच्छेदः - समर्थित: ( 1 ) पूर्वापरपरिच्छेदयोरनुसन्धानं कु ( 2b ) र्वन्नाचार्य देवेन्द्र बुद्धिः । शिष्याणां सुखबोधार्थं प्रमाणवार्तिक शरीरमाख्यातुमाशङ्कितञ्च परिहर्तुं प्रथमपरिच्छेदार्थानुसन्धानमप्याह । "आचार्यीये" त्यादि । इयञ्चात्राशङ्का (।) यद्याचार्य

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610