________________
५१६
प्र० वा० वृत्तौ० (४ परिच्छेदः)
2b
२ - (१२) एतदाह (1) प्रमा ण स मु (च) योत्र शास्त्रकृता व्याख्यातुं प्रस्तुतस्तत्र प्रथमं तन्नमस्कारश्लोकाद्धं व्याख्यानार्हं द्वितीयपरिच्छेदेन व्याख्यातं । तृतीयपरिच्छेदेन तु प्रत्यक्षलक्षणं सप्रभेदमशेषविमतिनिराकरणेन यथास्वरूपतो विभक्तम् (1) अवसर प्राप्तमनुमानं (1) तच्च द्विधा (1) स्वार्थं परार्थञ्च (1) तत्राद्यमा (दा) वेव व्याख्यातं (1) प्रथमञ्च तद्द्याख्यानप्रयोजनमुक्तम'र्थानर्थविवेचनस्यानुमानायत्तत्वादित्यनेन प्रत्यक्षमपि "ह्यनु (मान) बलादेव प्रामाण्यं लभते" इत्यादि व्याख्यातं (1) व्याख्येयसूत्रन्त्व 'नुमानं द्विधा त्रिरूपलिङ्गतोर्थदृगित्यादिकं प्रमाणसमुच्चये द्वितीयपरिच्छेद उक्तं । तृतीयपरिच्छेदप्रोक्तन्तु " परार्थमनुमानं “स्वदृष्टार्थप्रकाशनमि”त्यादिकं वार्तिकचतुर्थपरिच्छेदेन व्याख्याय इत्ययमेव वार्तिकप्रथमादिपरिच्छेदानामनुक्रमनिर्देशः ।
वार्तिकञ्च विशेषाभिधानादिरूपं यथोक्तं " सूत्राणामनुपपत्तिचोदनात्तत्परिहारो विशेषाभिधानमिति लक्षणमयमेवार्थः परोक्तः ।
" सूत्राणान्दोषमुद्भाव्य परिहारो यत्र दीयते । विशेषचोदना चापि वार्तिकं तत्प्रकीर्तितमिति ।
समुच्चय सूत्रे स्वदृष्टार्थपदं व्याख्यातुं शास्त्रकृदाह । "परस्य प्रतिपाद्यत्वा" दित्यादि । सुवचार्थस्तु वृत्तावुच्यते । स्वार्थमिति स्वस्मै इदं स्वार्थमर्थेन न नित्यसमासः सर्वलिङ्गता चेति वाक्येन चतुर्थी समासः । स्वप्रयोजनमित्यर्थः । येन स्वयमनुमेयं प्रतिपद्यते ज्ञानेन तत्स्वार्थं (1) परस्मै इदं परार्थं येन परेभ्यः प्रतिपादयति त्रिरूपवचनेन तत्परार्थं ।
ननु प्रमाणमविसम्वादीत्युक्तं अनुमानञ्च प्रमाणं ज्ञानं स्यात्कथं वचनं न दोषः उपचारात् परमार्थतस्तु ज्ञानमेवात्रापि परिच्छेदकं त्रिरूपवचने तस्यैव सूचनात् (1) वचनेनैव हि परोवबोध्यते न ज्ञानेन (1) महती चात्र विमतिः परेषामितीदं विवेच्यते । स्वार्थानुमानमवसरप्राप्तमिति सङ्गत्यानन्तरं नेदिष्टत्वात्पूर्वमेवे " ति 22. प्रथमं भूतं पदद्वयं व्याचक्षाणेनान्वयव्यतिरेकविचारात्प्र मा ण स मुच्च यस्य चतुर्थपरिच्छेदो [ दृष्टान्तविचार उक्तोऽन्यापोहव्याख्यानेन पञ्चमपरिच्छेदोऽन्यापोहविचारः समर्थितः सर्वस्य विशेषणविशेष्यादिशाब्दव्यवहारस्यान्यापोह एव योगात् । "हेत्वाभासास्ततो पर" इत्यनेन तु हेत्वाभासविचारः षष्ठः परिच्छेदः - समर्थित: ( 1 )
पूर्वापरपरिच्छेदयोरनुसन्धानं कु ( 2b ) र्वन्नाचार्य देवेन्द्र बुद्धिः । शिष्याणां सुखबोधार्थं प्रमाणवार्तिक शरीरमाख्यातुमाशङ्कितञ्च परिहर्तुं प्रथमपरिच्छेदार्थानुसन्धानमप्याह । "आचार्यीये" त्यादि । इयञ्चात्राशङ्का (।) यद्याचार्य