________________
परिशिष्टं (१)
:
धर्म की ति ना प्रमाण स मुच्च यो व्याख्यातुं प्रस्तुतस्तदा स एव व्याख्यायतां किमित्यादावुत्क्रम्यानुमालक्षणं व्याख्यातवान् इति (1) अस्य परिहारः। आचार्थीयेत्यादि । आचार्योत्र दिग्नाग स्तेन प्रणीतं यत्प्रमाणलक्षणशास्त्रं प्रत्यक्षानुमानस्करूपप्रकाशकं प्रमाण समुच्च याख्यं तन्नीतेरेवोद्योतयितुं प्रस्तुतत्वात् तस्य विविध- . प्रकारं विशेषेण च वार्तिकरूपेण पूर्वटीकाकारासद्वयाख्यां तीथिकविम (1)तञ्चापतीय यथास्थितव्याख्यानं व्याख्या। तस्या निबन्धनमनुमानं न प्रत्यक्षं तस्यानभिलाप्यवस्तुभेदविषयत्वेन निर्विकल्पकतया स्वार्थोपयोगित्वात्।।
अनुमाने तु सा निबध्यते सर्वविमतिनिराकरणा(ये) यथास्थिताविपरीतवस्तुस्वरूपस्यानेनाख्यापनात् । व्यवस्थाप्येति विशेषेण प्रतिबन्धाख्यानतस्त्रिरूपतया पूर्वमवस्थाप्येत्यर्थः । पूर्वकालभाविक्त्वाप्रत्ययेन हि पूर्वकालतास्य ज्ञाप्यते तथा 2b चाशङ्कितचोद्यपरिहारः । स्वतः प्रामाण्यञ्चास्य सूच्यतेऽनुमानं हि सुनिश्चितत्रिरूपतया विकल्पकत्वेनात्यन्तनिश्चायकत्वात्। स्वतः प्रमाणमनेनैव चाशेषविमत्यपाकरणं तीथिकनिग्रहः (आ)प्तवचनार्थव्यवस्थानं सर्वज्ञतासाधनञ्च क्रियते न प्रत्यक्षेणेति। एतदेव पूर्व व्यवस्थापितं प्रत्यक्षस्याप्येतवलादेव प्रामाण्यनिश्चयः। . . प्रत्यक्षरूपं हि तदाभासेपि संभवति। बोधरूपताया अर्थाकार...............
३-(१२) सस्पष्टप्रतिभासस्य च निर्विकल्पकत्वेन द्विचन्द्रादिज्ञानेपि संभवान्लवमनुमानस्य स्वाभासेषु निश्चितत्ररूप्यसम्भव इत्यनुमानभूतकारणथुद्धिद्वारे- 3a जैव प्रत्यक्षस्य प्रामाण्यं निश्चयं । यद्यप्यान्ये (? )षितमात्रं यथावस्तु प्रवर्तते प्रत्यक्षन्तदप्यसकृत्प्रवत्तितव्यवहारतयान्वयव्यतिरेकाभ्यां विवेचितवस्त्वाकार यथार्थ सम्वेद्यत इत्यनुमानपूर्वकमेवैतदन्वयव्यतिरेकयोरनुमानरूपत्वात्। दृश्यते चाभ्यासातिशयात्प्रत्यक्षमुत्पद्यमानमेव प्रमाणं मणिरूप्यादिविषयज्ञानवत्तथा विधतत्स्वत एव प्रमाणं भ्रान्तिनिमित्तस्याभ्यासेनैव निराकृतत्वात्। अन्यथा कथं लिङ्गज्ञानं प्रमाणं स्यात् । यत्र तु क्वचिद्विषये भ्रान्तिनिमित्तापनयासमर्थन्तत् तत्रानुमानानिश्चय इति तत्पूर्वमुक्तं। नन्वनुमानमपि प्रत्यक्षपूर्वमेव नायन्नियमो व्याप्तेरनुमानेन निश्चयात् । न हि व्याप्तिापकस्य तत्र भाव एव। व्याप्यस्य वा तत्रैव भाव इत्ययं नियमोऽध्यक्षेणेक्षते। लिङ्गमपि गृहीतसम्बन्धेनैव पुंसा निश्चीयते इति सम्बन्धापेक्षणात्तदप्यनुमानपूर्वकमेव। न चानुमानप्रतिभासकाले प्रत्यक्षं व्याप्रियते इत्युक्तं। न हि प्रत्यक्षप्रतिभासवत् स्वाभासेऽनुमानं सम्भवतीत्यप्युक्तं। अतोनुमानमुक्तार्थसाधकत्वात् पूर्वमुक्तं (1) अथवा लक्ष्यन्ते स्कन्धधात्वायतनानि येन शास्त्रेण तल्लक्षणशास्त्रं त्रिपिटकं (1) प्रमाणञ्च तदविसंवा