________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
दित्वाल्लक्षणशास्त्रं चेति प्रमाणलक्षणशास्त्रं भगवत्प्रवचनं न तीर्थिकानामिव शास्त्रं विसम्वादकमलक्षणञ्च वस्तुस्वरूपस्येति भावः । तथा हि भगवतां वचनं प्रमाणोपपन्नमनित्यादिवस्तुरूपसम्बेद्यकं चाथवा प्रमाणं प्रत्यक्षानुमाने तयोर्लक्षणं भगवतैव(3b) निर्दिष्टं (1) यथोक्तम भि घ में "चक्षुर्विज्ञानसमङ्गी पुद्गलो नीलं जानाति। नमे तु नील मित्यनेन निर्विकल्पकं प्रत्यक्षमिन्द्रियज्ञानमुक्तं (1) मनोविज्ञानसमङ्गी तु नीलं जानाति । नीलमिति त्विति । अत्राद्येन मानसं निर्विकल्पकं . प्रत्यक्षमुक्तं द्वितीयेन तु विकल्पकं मन उक्तं । सम्वित्तिस्तु जानातिवृचनेनोक्ता । न हि स्वयमप्रकाशमन्यं प्रकाशयति बाह्यप्रकाशवत् विशेषवचनमप्यस्त्यनुभवरूपं ज्ञानमितिवचनात् । योगिज्ञानमपि श्रुतचिन्ताभावनाक्रमेण तत्रैवोक्तं (1) कार्यानुमानस्य तु लक्षणं ( 1 ) ।
(4a)
५१८
" धूमेन ज्ञायते वह्निः सलिलञ्च वलाकया । निमित्तैर्ज्ञायते गोत्रं बोधिसत्त्वस्य धीमत" इति ॥
स्वभावहेतोर्लक्षणं (1)
"अनित्या वत संस्कारा उत्पादव्ययधर्मिणः ।
उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखमिति ।
अत्र हि तद्भावमात्रानुबन्घित्वं साध्यधर्मस्योक्तमिति स्वभावोयमुक्त एतत्प्रमाणं येन शास्यते भगवद्वचनेन तत्प्रमाणलक्षणशासकं वचनं शास्त्रं (1) तद् भगवदुक्तं प्रमाणलक्षणमाचार्य दिग्नागे न व्याख्यातं प्रमा ण स मुच्च ये नेत्याचार्यीयप्रमाणलक्षणशास्त्रस्य व्याख्यातस्यानिबन्धनमनुमानं अत्र वार्तिके, प्रथमव्यवस्थापितमुक्तप्रयोजनार्थमित्यर्थः । अवसरप्राप्तमिति सर्वत्रैव सन्तो नमस्कारपूर्वकं प्रवर्त्तन्त इति सदाचारानुवृत्यर्थं विघ्नोपशमनार्थञ्चाचार्येण प्रमाण समुच्च ये भगवतो नमस्कारश्लोक उक्तः । नमस्कारेण हि पुण्योपचयो भवति । स च पापं निवर्त्तयति विरोधात् । पापञ्च निवर्त्तमानं स्वकार्यमपि विघ्नं निवर्त्तयतीति विघ्नोपशमनो भवति । भगवत्प्रामाण्यनिबन्धनश्चानुमानमनन्तरमुक्तमित्यवसरप्राप्ता व्याख्या भवति नमस्कारश्लोकस्य ।
“प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्र सुगताय तायिने । प्रमाणसिद्धयै स्वमतात्समुच्चयः करिष्यते विप्रसृतादिहैकत ( : ) ।”
( प्रमाणसमुच्चये १1१ ) इत्यस्य ॥
तत्र यथा प्रत्यक्षादिप्रमाणं पुरुषार्थोपयोगिनोनधिगतस्यार्थस्य प्रकाशकं सम्वादकञ्च तथा भगवानपि यत्रोत्कृष्टः पुरुषार्थः · प्रतिबद्धश्चतुरार्यंसत्यलक्षणे तत्त्वे तद्विषयं हि ज्ञानमासाद्य मोक्षार्थिनां मोक्षाधिगमात् । तस्य