________________
परिशिष्टं (१)
ह्यनधिगतस्य प्रकाशकोऽविसम्वादकश्च भगवान्नान्यः इति प्रमाणसापात्प्रमाणं। भूत उत्पन्नः। भूतवचनमप्रजातस्येश्वरादेः परपरिकल्पितनित्यस्य प्रतिषेधार्थमिवार्थस्तु सामर्थ्यगत इति न तदर्थमेतदिति वक्ष्यते । प्रमाणञ्चासौ भूत श्चेति प्रमाणभूतः । तस्मै प्रमाणभूताय प्रणम्येति योज्यम्।
ननु च प्रणमनक्रियया व्याप्यमानत्वात् द्वितीययात्र भवितव्यं तत्कथं चतुर्थी (1) न चेयं नमः शब्दयोगे युज्यते नमःशब्देन सकारान्तेन नाम्ना तस्याविधानात् (1) न च प्रणम्येत्यत्र ल्यबन्ते सोस्ति । ल्यबन्तस्यैकदेशस्याप्रतिपादकत्वादसकारान्तत्वाच्च । ___उच्यते। "क्रियाग्रहणमपि कर्तव्यमि"ति का त्या य न वचनात्पत्ये - शेते इत्यादिवदत्र चतुर्थी। भाष्य कृ ता त्वयं सूत्रार्थ एवं वर्णितः। प्रार्थनाध्यवसायादिक्रियया । प्राप्तुमिष्टतमत्वाल्लब्धकर्मव्यपदेशया प्रणतिक्रिययाऽभिप्रियमाणस्य संप्रदानत्वविवक्षायामत्र चतुर्थी। यदा तु क्रियामा क्रियान्तराव्याप्त्या विवक्ष्यते तदा कर्मणि द्वितीया । एवञ्च न्यायमाश्रित्य “गत्यर्थकर्मणी"त्यादिसूत्रं प्रत्याख्यातम् । अमुना न्यायेनैव द्वितीयाचतुर्योः सिद्धत्वात् न चातिप्रसंगः शिष्टप्रयोगानुसारितया लौकिकविवक्षासमाश्रयादन्यत्रापि विवक्षानियमेनैव साधुत्वं (4b) दृश्यते। यथा ब्रूम इत्यादौ परस्मैपदमन्यथा “कर्षभिप्राये क्रियाफल" (4b) इत्यात्मनेपदमत्र स्यात् । वक्ता हि पर बोधयितुं वचनमुच्चारयन् क्रियाफलयोगी भवतीति नियतात्रात्मनेपदप्राप्तिः। अनुच्चारणव्यवच्छेदेन तु यदोच्चारणं - विवक्ष्यते तदा न न बमोऽपि तु ब्रूम एवेत्येतावन्मात्रविवक्षायां परस्मैपदं संगतमेवेत्यदोषः। सूत्रकारमतेनाप्यनुगतार्था संप्रदानसंज्ञेत्यत्रापि कायवामङमनःप्रणामेन भगवन्तमात्मसात्कुर्वन् स्तोत्रकर्ता च भगवते आत्मानं निवेदयतीति ददाति (1) क्रियाव्याप्येन प्रणतिकर्मणाऽभिप्रीयमाणतास्तीति न्याय्यैव संप्रदाने चतुर्थीति मुनित्र य मतेप्यविरुद्धं साधुत्वं । जगद्धितैषिणे इति जगद्धितं सा ह्यपायहेयोपादेययोरात्यन्तिके दानोपादाने तदेषणशीलाय प्रणम्य कायवाङमनोभिः प्रणामं कृत्वा स मुच्च यः करिष्यते इति सम्बन्धः। एतेन प्रणामतः पूजा विहिता (1) शास्त्र इति तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटावित्यौणादिक इट् प्रतिषेधः। दुःखक्षयोपायोपदेशः शासनं। तच्चात्र हेत्ववस्थाभाव्यभिप्रेतं। सुगतायेति । फलावस्थानाभिधानात्तच्छासनं कुर्वन् भगवान् बोधिसत्वावस्थायां शास्तृशब्देनोक्तो मध्ये तु नमस्कारेणोभयावस्थायाः प्रणम्य तामाह। उभयी चावस्था हेतुफलरूपा हेत्ववस्था चाशयप्रयोगरूपा (1)आशयोपि द्विधा सर्वसत्वत्राणाकारोबोध्या. लम्बनः। प्रयोगोपि द्विधा विमुक्तिचर्याभावी भूमिगतश्च अधिमुक्तौ च प्रायोमि