________________
५२०
प्र
प्र० वा. वृत्ती० (४ परिच्छेदः) को दानादयः। भूमौ तु वैपाकिकाः पारमिताख्याः (।) तेपि द्विधा साभिसंस्कारान(5a) भिसंस्कारभेदेन । भूमयो हि सप्त साभिसंस्काराः। आभोगनिमित्तबलेन समाधेः
प्रवर्तनालवापि सप्तम्यां निमित्तं निवर्तते नाभोगं निमित्तशङ्कासद्भावादष्टम्यान्त्वाभोगोपि निवर्तते शुद्धिभूमिप्राप्त्योभयनिवृत्तेः स्वरसवाही समाधिर्भवति। यद्वलात्सर्वजगदर्थसम्पादको भवति । सर्वसंविल्लाभाय सर्वानुशासको भवति। सा चेयं हेत्ववस्था भगवतश्चित्तोत्पादादारभ्य बोधिमण्डोपसंक्रमणमारविध्वंसनवज्रोपमसमाधिपर्यन्ता दशपारमितात्मिका । फलन्त्वेकादशी भूमिः । क्षयानुत्पादज्ञानं बोधिः। हेत्ववस्था चादावेव चतुःसम्पदा विशिष्यमाणत्वात्सर्वेभ्योऽतिशयवती। .. · अशेषपुण्यज्ञानसम्भाराभ्यासो निरन्तराभ्यासो दीर्घकालाभ्यासः सत्कृत्याभ्यासश्चेति सम्पच्चतुष्टयं। इहैव जन्मनि काव्यशास्त्रकलादिष्वभ्यासान्निरतिशया गुणप्रकर्षसम्पज्जायते (1) याऽन्येमं साप्यशक्या चिन्तयितुं। तथैकजन्मोपातकुशलेन देवादी निरतिशयाष्टगुणैश्वर्यादिप्रकर्षसंपद् भवति (1) किंपुनर्वशिताप्राप्तोपरिमितानन्यकल्पाभ्यासोपचीयमानपुण्यज्ञानसम्भारो न यास्यति परां सम्प्रदमित्य (स)म्भाव्यमेतत्। कारणविशेषाच्च कार्य विशिष्यत इति फलसम्पदपि चतुर्षा विशिष्यते। प्रहाणज्ञानरूपकायप्रभावचतुःसंपद्योगात् । प्रहागसंपदपि चतुर्धा प्रकथ्यते । सर्वह्वे(?) णं प्रहाणमत्यन्तप्रहाणं सर्वसमाधिसमापत्यावरणप्रहाणञ्च । ज्ञानसम्पदपि चतुर्धा विशिष्यते। सर्ववस्तुज्ञानं अनुपदिष्टज्ञानं अयुग्मज्ञानञ्च। रूपकायसंपदपि चतुर्विधा लक्षणसंपत् द्वात्रिंशन्महापुरुषलक्षणप्रतिलम्भात्। अनुव्यञ्जनसम्पद (5b) शीत्यनुव्यञ्जनप्राप्तेः। बलसंपन्नारायणबलसमन्वितत्वात्। वज्रसारास्थिशरीरतासम्पत् दृढाभेद्यशरीरत्वात्। प्रभावसम्पदपि चतुर्विधा। बाह्यविषयनिर्माणपरिणमनाधिष्ठानवशित्वसम्पत्। आयुरुत्सर्गाधिष्ठानवशित्वसम्पत्। आवृताकाशसुदूरक्षिप्तगमनाल्पबहुप्रवेशनवशित्वसम्पत्। विविधनिजाश्चर्यसर्वधर्मसम्पच्च । उपकारसम्पदपि उभयावस्थाभाविनी चतुर्धा विव (?)शिष्यते। धर्मचक्रप्रवर्तनापायत्रयसंसारदुःखात्यन्तनिर्मोक्षस्वभावतो यानत्रयसुगतिप्रतिष्ठापनतो वा॥
सुगतायेति मुष्ठु गतः प्राप्तः सर्वथा सर्वहेयप्रहाणं ज्ञानादिसम्पदञ्चेति (1) सुगतः शोभनं वा गतोऽनुबुद्धवानिति सुगतो (1) ज्ञानार्थोत्र गतिः पूर्वत्र तु प्राप्तिवचनः । अनेन तु स्वार्थसम्पत्फलावस्थाभाविन्युक्ता। पूर्वन्तु हेतुभाविनी परार्थसम्पदुक्ता निरूपमा फलावस्थाभाविनों परार्थसम्पदमाह। तायिने इति । तपयलेऽनेनेति तायः सुदृष्टमार्गोपदेशः । सोऽस्यास्तीति तायी। प्रेक्षावदारम्भाणां प्रयोजनेन व्याप्तत्वात्साक्षात्प्रयोजनमाह । प्रमाणसिद्ध्यै इति। प्रमाणव्युत्पत्तये