________________
.. परिशिष्टं (१) .
५९ . स्वप्रयोजनत्वान्नारब्धव्यमिदं प्रमाणसिद्धा य मु खा दिनैव साधितत्वात् (1) यत् साधितं तत्र साध्यते यथा सिद्ध ओदनः इति (1) व्यापकविरोधमाशब्क्याह (1) स्वमताद्विप्रसृतादिति हेतौ पञ्चमी (1) विस्तृतप्रकरणतार्थो हि दुःखेनावधार्यत इति सुखबोधायेहकत्र व्यवस्थापितोऽशेषविमत्यपाकरणेनेति न पुनरुक्तता दोषः। एकत इति सप्तम्यर्थे तसि )। श्लोकश्चार्य प्रमाणकथनप्रस्तावाद् भगवत्प्रामाण्यसाधकोऽनुलोमप्रतिलोमतो ज्ञेयः ।
प्रमाणं भगवान् जगद्धितैषित्वात् । यतश्च जगद्धितैषी अतः शास्ता (1)यतश्च 6a शासकोतो गोत्रभेदेन प्राज्ञजातीयत्वात् सुगतः। सुगतत्वाच्च सर्वजगत्त्रायकोऽतोयं । प्रमाणमिति अनुलोमव्याख्या। __ प्रतिलोमतस्तु प्रमाणं तायित्वात् । तायित्वं सुगतत्वात्। तच्च शास्तृत्वात्। एतच्च जगद्धितैषित्वात् । कार्यतः कारणानुमानमिति व्याख्याभेदः। तदत्र श्लोके शास्त्रकृता प्रथमार्द्ध पञ्च पदानि प्रणम्येत्येतत्त्वक्त्वाऽमुना परिच्छेदेन व्याख्यायन्ते । नाधिकं सुगमत्वादिति (1) . :
. व्याख्येयाहव्याख्यानात् श्लोकव्याख्येत्याह । प्रायश्चाध्यारोपितगुणा स्तुतिरन्यदेवतानां। भगवतस्त्वप्रतिसममहद्भूतगुणा स्तुतिरिति प्रतिहता अप्यत्र प्रवर्तन्ते। मध्यस्था अभिप्रसीदन्ति । अभिप्रसन्नास्त्वत्यन्तमेव तत्र हितभक्तयो भवन्ति । इति स्तोत्रकर्तुः परेषाञ्च पुण्योपचयो भवति । व्याख्यातुरपि तथैव सर्व सम्पद्यते (1) यथोक्तं (1)
"स्तोत्रकर्तुर्यथा पुण्यं स्तुतेर्भुवि प्रवर्तते। तयाख्यातुस्तथा सर्वमिति व्याख्या प्रवर्तते।"
ताञ्च शास्त्रकृदाह। "प्रमाणमविसम्वादि ज्ञानमि" (१३)त्यादि । वार्तिक .. रूपेण चेयं व्याख्या। तल्लक्षणत्वादित्याक्षिप्तं। वात्तिकस्य च लेक्षणमुक्त। वक्ष्यते व्याख्या चोद्देशनिर्देशापेक्षाक्षेपातिदेशादिलक्षणा तत्र युक्तात्र योज्या। तत्रोद्देशनिर्देशौ समासव्यासकथनं। अपेक्षा च पूर्वोत्तराभ्यामपेक्षणं। आक्षेपोऽर्थाक्षिप्तार्थकथनं (6b) विजातीयव्यावृत्तिश्च। ___ तदत्र वृत्ति का रः श्लोकपातनिकां कुर्वन् "प्रमाणभूताये"त्येतत्स्वयं व्याचष्टे। प्रमाणं जात इति भूतशब्दः प्रादुर्भावार्थः । तेनाजातमवस्थत्वान्न प्रमाणमित्यनन्तरमुक्तम्वक्ष्यते च। सर्वश्च शब्दोऽन्यत्र प्रयुज्यमम्नोऽन्तर्भूतोपमार्थः प्रयुज्यत इत्याह प्रमाणमिवेति (1)प्रमाणशब्दो ज्ञाने मुख्य इतरत्र तु केन साधर्म्यणोपमानोपमेयत्वमित्याह (1) 'अविसम्वादी'ति। प्राप्तिवाची तु भवतिः स्पष्टार्थ इत्यसो न विवृतः प्रामाण्यं प्राप्तः प्रमाणभूत इति।
६६