SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ प्र० वा. वृत्ती० (४ परिच्छेदः) ननु भावनाबलनिष्पन्ननिष्कल्पा विकल्पा विकल्पभ्रान्तज्ञानात्मकत्वाद् भगवतः प्रत्यक्षप्रमाणस्वभावता साक्षादस्त्येव किमुपचाराश्रयेणेति चेददोषोयं सविकल्पज्ञानावस्थाश्रयेणाभिधानादित्येके। इदन्त्वत्र युक्तं (1) यद्यपि यथोक्तप्रमाणात्मकः सदा भगवान् तथाप्यसंव्यावहारिकोसौऽवस्थाभेदस्ततः सांव्यवहारिकप्रमाणेनोपमीयते लोकबोधनाय (1) अमुनैव व्यवहरन्ति मुक्ता न लोकोत्तरेणातद्विप (क्ष)त्वादितरेषां। यथोक्तं (1) "रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ । ज्ञानं प्रत्यभिलापञ्च सदृशौ बालपण्डितावि"ति ॥ "प्रमाणमविसम्वादि ज्ञानमि"ति। अविसम्वादित्वं ज्ञानत्वञ्चानूद्य प्रामाण्यं बिषीयते। एतच्च प्रमाणद्वयव्यापिसामान्यलक्षणं (1) 7a... यद्यपि चालम्बनमनुमानस्य भ्रान्तं प्रवृत्तिविषयस्तु वाध एवार्थः। सामान्य विशेषाकाराभ्यां स्वलक्षणस्यैव परिच्छेदादविसम्वादित्वं तुल्यं । अर्थक्रियासमर्थप्रतिबद्धलिङ्गापेक्षयानुमानस्य बाह्य एव प्रवृत्तेरिति तुल्यत्वं । मनु चाध्यक्षानुमानाभ्यामपि प्रवृत्तस्य कदाचित्प्रतिबन्धादिसम्भवाद्विसम्वादोपि। तदाभासाभ्यामपि काकतालीयन्यायेन सम्वादोपि। अतः कथमेतत्प्रमाण- लक्षणं। ' ' न दोषः। सदैव प्रमाणाभ्यां प्रवृत्तस्य प्रतिबन्धादप्रतिबन्धादिसम्भवे नियतः सम्वादो न त्वेवं तदाभासेऽवश्यम्भावी सम्वादः। प्रमाणशक्तिर्वा प्रामाण्यं सा च प्रतिबन्धादावप्यस्ति प्रमाणयोर्न त्वेवं तदाभासयोरिति असायमेव । द्विविधश्च सम्वादो ज्ञेयधर्मो ज्ञानधर्मश्च । अत्रार्थमुपलभ्य प्रवृत्ताविष्टार्थप्राप्तिः सम्वादो विषयधर्मः। अर्थसामर्थेन तत्सिदेः। तदाकारज्ञानोत्पत्तेस्त्वर्थक्रियाधिगतिविषयिधर्मः(1) सत्यपि बाह्येऽर्थे तव्यवस्थाश्रयं ज्ञानमेव तस्य स्वसम्विद्रूपतया बाह्यप्रकाशकं स्वयंप्रकाशरूपत्वात् (1) तदेवं विषयधर्मस्यापि सम्वादस्म सम्भवाज्ज्ञानग्रहणं कृतमित्येतत्कथयन्नाह। स "पुनरर्थपरिच्छेद्ये"त्यादि। स पुनस्संवादो विषयधर्म इत्यनेन सम्बन्धः । कदा पुनरसौ भवतीत्याह । अर्थस्य विच्छिद्य प्रदत्साविति । परिच्छेदः प्रमाणद्वयं। तत्तु इत्यत्रानयोः। प्रत्यासन्नकारणत्वमिति सूचयति। अयन्तु भेदः प्रत्यक्षाविकल्पकत्वान्न निश्चयः किन्तु वदाभासोत्पत्तेः । अनुमाने तु निश्चय एव। यद्येवं प्रत्यक्षेणाविकल्पेन मिथ्याफलवादिनां विवेकस्य कर्तुमशक्यत्वात्कथं ततोऽथ परिच्छिद्य प्रवृत्तिरिति चेद् (1) उच्यते (1) द्विधा प्रत्यक्षाश्रया प्रवृत्तिराद्याभ्यासक्ती च। तत्र याऽद्या सार्थगता तत्राभ्याससामर्थ्याद्यथाविषयमधिगतपाटवं सदसन्मणिरूप्यादिज्ञानवदुत्पद्यमानं यथावस्त्वेवाकारं परिच्छि
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy