________________
परिशिष्टं (१)
न्ददुत्पद्यते। तदाकारसम्वेदनश्च बाह्यार्थाधिगतिः सम्बिन्निष्ठत्वादर्थस्थितेनियताकारञ्च वेदनं द्वैराश्येनार्थानां व्यवस्थापकम् (1) एतद्वशाच्च विधिप्रतिषेधविकल्पः । इदमुपलभे इदं नोपलभ इति भवति । तथा भूतं तत्स्वत एव प्रमाणं पुरुष बाह्येऽर्थे प्रवर्त्तयतीत्यर्थं परिच्छिद्येति वचनं घटत एव (1) अनिश्चितविवेकस्य तु कारणपरिशुद्धिद्वारेण प्रवृत्ति ( : 1) अत्रापि योऽसमर्थस्तस्य संशयेनैव प्रवृत्तिः । कथन्तर्हि परिच्छिद्येति वचनं एतन्मतेनेति चेद् (1) उक्तमत्र तदाकारोत्पत्तिमात्रेण तथा व्यपदेश इति । संशयेन प्रवर्त्तमानः कथं प्रेक्षापूर्वकारीति चेत् । को विरोधोत्र (1) न हि य एव निश्चयेन प्रवर्त्तते स एव प्रेक्षापूर्वकारी। तथा हि प्रवृत्ती हेतुद्वयमर्थसंशयोऽर्थनिश्चयश्च । निवृत्तावपि द्वयमेवानर्थनिश्चयोऽनर्थं संशयश्च । तत्राद्येन तुद्वयेन यः प्रवर्त्तते निवर्त्तते च पश्चाद् येन स प्रेक्षापूर्वकारी भष्यते लोके । यदि च निश्चयेनैव प्रवृत्तिस्तदा कृषीबलादीनां कृष्यादिष्वप्रवृतिः । न हि तेषामनागतशस्यादिनिष्पत्तौ निश्चायकं प्रमाणमस्ति ।
५२३
किं रूपोऽसौ विषयधर्मः सम्वाद इत्याह ( 1 ) " यथा समीहिते" त्यादि यथा येन रूपेण सा
X
X
X
४ - (१।२) तदेवमुपादेयस्य भगवत्प्रवचनार्थस्य साधकन्तदन्यस्य हेयार्थस्य वाधकमनुमानमाचार्य दिग्नागे नोक्तं “त्रिरूपाल्लिङ्गतोऽर्थदृगि " ( ति ।) अत्र तद्विषयञ्चाथ शब्दवाच्यमन्यापोहमशेषसंख्यादिविप्रतिपत्तिनिराकरणतः प्रथमं प्रथमपरिच्छेदेन शास्त्रकृद् व्याख्यातवान् । अनुमानमेव साधकं ( प्रवचनार्थस्य ) तीर्थ्यागमस्य वाघकञ्च न प्रत्यक्षं ( 1 ) तस्य सन्निहितविषयत्वात्तत्स्वरूपस्य चानुमानेनैव व्यवस्थानात्सर्वविमतीनाञ्चानेनैव निराकरणात् (1) तथा हि त्रिरूपमेव लिङ्गन्नैकलक्षणादिकं (1) न च दर्शनादर्शनमात्रेण हेतुर्गमकः किन्तु प्रतिबन्धात् (।) स च द्विरूपो नार्थलक्षणो विरोधस्य [ परस्य न परिहारस्त्वितिलक्षणोऽभावः कथं भावात्मकः स्यात् वह्निना सहानवस्थित्या आलोकः कथमनुकाराज्जायेत । अनुकारिण. . ] चात्रैवान्तर्भावात् (1) तथान्यापोह एवानुमानस्य विषयो तद्रूपपरावृत्तवस्तुमात्रप्रसाघनान्न परपरिकल्पितं व्यतिरिक्ताव्यतिरिक्तादिरूपं सामान्यं ( 1 ) न च विधिमुखेन शब्दो वाचकः किन्त्वन्यव्यवच्छेदेनाभाव [भावव्यवच्छेदवाचकत्वात् ] इव भावेप्यन्यव्यव [ अब्राह्मणानीत्यादौ पर्युदासे] च्छेदबलादेव च विशिष्टार्थप्रतीतेरन्यथा यत एव विजातीयान्न निवर्तेत सोऽन्यरूपोपि स्यात् ( 1 ) तद्रूपवत्स्वरूपवद्वाऽन्य (:) स्यादनिवृत्तेर्न चापौरुषेयः शब्दस्तस्य विवक्षाकार्यत्वादिति सर्वमंत्र प्रथमपरिच्छेदे प्रोक्तं ( 1 ) तदेवम् ( 1 )