________________
५२४
प्र० वा. वृत्तौ० (४ परिच्छवः) ... "अनुमानं द्विधा स्वार्थ त्रिरूपाल्लिङ्गतीर्थदृक् (1) . ' पूर्ववत् फलमर्थः स्वरूपश्चातुल्यमेतयोरि"ति (॥)
अत्र प्रमाणस मुच्च ये द्वितीयपरिच्छेदश्लोके पूर्ववदिति प्रत्यक्ष इव विषयाधिगतिरूपं प्रमाणादव्यतिरिक्तं फलमनुमानेपि ज्ञेयमर्थस्त्वालम्वनं प्रत्यक्षस्य स्वलक्षणमितरस्य तु सामान्याकारोन्यापोहो विषयः स्वरूपञ्च स्पष्टास्पष्टप्रतिभासमतुल्यं प्रत्यक्षानुमानयोरित्येतद्वक्ष्यमाणानुमिति त्यक्त्वातिविवादास्पद.. (1)
X
2a. ५-(२१) अधुना शेष प्रमाण स मुच्च य प्रथमद्वितीयपरिच्छेदव्याचिख्या
सुस्तदादिनमस्कारश्लोकं च व्याख्यातु शास्त्रकारो द्वितीयपरिच्छेदं प्रस्तौति । अनन्तरञ्चागमचिन्तायाम (३।२१२) पौरुषेयमागममपाकृत्य यत्प्रतिज्ञातं सर्वस्य दृष्टादृष्टप्रकर्षार्थस्य स्वर्गापवर्गादेः परलोकस्य च देशकः पुरुषातिशय एवेति स इदानी प्रमाणभूतः साध्यते नेश्वरादिरिति कथ्यते प्रवचने चार्यसत्यचतुष्टयं दुःखसत्यपूर्वकमुक्तं निरूपणक्रमेण (1) योगी हि सांसारिकदुःखार्तः प्रथमं दुःखसत्यं निरूप्य हेयोपादेयं सोपायं पर्येषत इति कृत्वा शास्त्रकारस्तूत्पत्तिक्रममाश्रित्य यथा संसारः प्रवर्तते निवर्तते च तथा प्रथमं समुदयसत्यं तद्विमतिनिराकरणतः कथयस्तदनुक्रमेण शेषसत्यत्रयमशेषविमतिनिराकरणतः कथयतीति द्वितीयपरिच्छेदार्थः । सर्वत्र च प्रेक्षावतां सम्बन्धं विना वाञ्छाप्रवृत्तिरिति पूर्वापरपरिच्छेदसंघटनाथ सम्बन्धोऽवश्यवाच्यः (1) स चानन्तर्यलक्षणोऽनन्तराणामपि पूर्वविद्यमानोपकारकत्वादानन्तर्यञ्च द्विधा ग्रन्थतोऽर्थतश्च (1) शास्त्रादेगिर्थरूपत्वात्तत्रानन्तरपरिच्छेदसम्बन्धोयं द्वितीयपरिच्छेद इति (1) .
2b६-(११७) तत्त्वबोधासमर्थानां सद्वृत्या मानमेययोः ।
व्यवस्थानमिदं शास्तुः प्रवचोनुगमुच्यते॥ ये पुद्गलाः परमार्थाधिगमे झटित्यसक्ता धर्मानुसारिणो योगिनश्च तेषां सत्संवृत्त्या प्रमाणप्रमेयव्यवस्थानं परमार्थेऽसंभवात्। यदाह नैयायिकचक्रचूडामणिः प्रमाण वा ति के (२।५) _ "प्र(r)माणं (? ण्यं) व्यवहारेण शास्त्रं मोहनिवर्त्तनमि"ति ।
भगवानपि परमार्थबोधेऽशक्तानवता (र)यितुमुक्तवान् "क्षणिकाः सर्वसंस्कारा अनित्यदुःखशून्यानात्मा" दीति। एतानि प्रमाणोपपन्नानीत्यपि प्रतिपादयितुमिदमुच्यते ॥