________________
Appendix I
परिशिष्टं (१) २१-(११२) अ...था। कस्मादयं वात्तिकन्यायेन प्रमाण समुच्च यं ] व्याचष्टे न पुनः स्वतन्त्रमेव शास्त्रमिति प्रश्ने प्राह। प्राय इत्यादि (1) अयमर्थः । चिन्तया करुणया च मे प्रमाणसमुच्चयव्याख्यायां चेतो जाताभिलाषं दिग्नागरचितशास्त्रस्यास्योपकारित्वेन। तच्च श्रोतृजनापराधेन। पदार्थस्तूच्यते (1) प्रायो बाहुल्येन प्राकृतसक्तेमा॑नानीचो (?) दुष्टान्वयः। तीथिकशास्त्राणि आचार्यनीतिदूषणानि विपर्यस्तज्ञानप्रेभवत्वात् दुष्टान्वयान्यतश्च प्राकृतानि तेषु सक्तिरनुरागो यस्य । कुतः प्राकृतसक्तिरित्याह । प्रतिबलप्रज्ञ इति अतोसो दुर्भाषितमपि सुभाषितं कृत्वा त्यज्यते । अप्रतिबलप्रज्ञत्वादेव चाचार्यसुभाषितानि स्वयं यथावद् बोद्धुमक्षमो दोषवत्त्वेन गृहीत्वा तैराचार्यसुभाषितैरनर्थी आचार्ये च विद्वेषवान्भवतीत्याह (1) केवलमित्यादि (1) न केवलमनर्थी सुभाषितराचार्यांयैरपि तु विद्वेष्टयपीpमलैः परिगतः सन् दिग्नागं । किं भूतं सूक्ताभ्यासविद्धितव्यसनं । व्यवहितानामपि सम्बन्धोस्ति(1) शोभनमुक्तं सूक्तं तत्राभ्यासस्तत्र विवद्धितं व्यसनं तत्रैव चात्यर्थमासक्तत्वं अनेनोपचितपुण्यज्ञानत्वमाह। तस्यैव तथात्वात्। येनानीं प्राकृतसक्तिस्तेन कारणेन समुच्च यो न परोपकारः परमुत्कृष्टं। अन्योपकारोस्त्येव प्रायशब्दसूचितः (1) इतिहेतौ। इति हेतो स्माकं चिन्ता (1) महार्थमपीदं शास्त्रं न बहूनामुपकारकं तत्कथमस्यार्थसाफल्यं कुर्यामित्येवमाकारा। आचार्य विद्वेषः अन्योप्यनर्थहेतुरतो महा नाचार्यनीतेन विपरीतार्थप्रकाशनेनाचार्ये वहुमानमुत्पाद्यानर्थहेतोर्जनं निवर्तयिष्यामीत्येवंदुःखवियोरोच्छाकारा करुणाप्यपि शब्दात्। अत्रानुबद्धस्पृहमिति द्वितीयेनेति शब्देन चिन्ताकरुणयोर्हेतुत्वमाह। इति चिन्ताकरुणाभ्यां चेतश्चिरन्दीर्घकालं प्रमाण समुच्च य-व्याख्याभूतवार्तिकरचनायामनुबद्धस्पृहं सन्तानेन प्रवृत्तेच्छमिति॥
' पुस्तकान्ते कर्गदपत्रेषु विभूतिचन्द्रेणैव लिखितम्। २"प्रायः प्राकृते".(१२) त्यादि कारिकायाम्।