________________
दृश्यानुपलब्धिः सद्व्यवहारबाधिका
तस्मादनुपलम्भोयं स्वयं प्रत्यक्षतो गतः । स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थितेः ॥ २७४॥
५०९
तस्मादयं ज्ञानात्मकाऽनुपलम्भः स्वयमात्मना प्रत्यक्षतः स्वसम्वेदनाद् गतः प्रतीतः सन् स्वमात्रवृत्तेरात्ममात्रप्रतीतायास्तस्यानुपलभ्यमानस्याभावव्यवस्थितेर्गमकः । अनुपलम्भो हि निमित्तं १ विषयो वाऽभावव्यवहारस्येत्युभयचापि स्वसत्तामात्रेणाभावव्यवहारहेतुः । (२७४ )
' [ अन्यथार्थस्य नास्तित्वं गम्यतेनुपलम्भतः । उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः ॥ २७५॥
अन्यथा यदि स्वतो नानुपलम्भसिद्धिस्तदाऽर्थस्य नास्तित्वमनुपलम्भस्ततो गम्यते (1) उपलम्भस्य नास्तित्वमनुपलब्धिरन्येनानुपलम्भेन गम्यते । सोप्यनुपलम्भान्तरेणेति अपेक्षायामनवस्थितिः स्यात् । (२७५)
(५) दृश्यानुपलब्धिः सद्व्यवहारबाधिका
भवतु तावद् दृश्येष्वनुपलब्धावभावप्रतीतिरदृश्ये पुनः कथमित्याह । ster निश्चयायोगात् स्थितिरन्यत्र बाध्यते । 'यथाऽलिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥२७६॥
अन्यत्र दृश्यानुपलब्धौ सत्यामदृश्ये विषयेऽभावनिश्चयायोगात् । सद्व्यवहारस्य स्थितिब्र्बाध्यते उपलम्भपूर्व्वकत्वात् तस्याः । यथाऽन्येषु सत्वेषु प्राणिषु रागादिविषयो विकल्प परचित्तज्ञानादिरादिनाऽलिङ्गो लिङ्गरहितः सदृद्व्यवहारविषयत्वेन न सिध्यति । ( २७६ )
किं पुनरदृश्यानुपलब्धौ सत्यामपि न सिध्यतीत्याह ।
अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने ।
एषा हि सत्यप्यर्थे सम्भवन्ती अभावस्यानिश्चयफला (1) तस्माद् व्यावृत्तेरभावस्य साधने नालं शक्ता ।
आद्याधिक्रियते हेतोनिश्चितेनैव साधने ॥ २७७॥ पुनर्व्यावृत्तिसाधनेऽधिक्रियते । कस्मादित्याह ।
आद्या दृश्यानुपलब्धिः
१ ज्ञानेन निमित्तेन नैमित्तिको व्यवहारः साध्यः । अर्थो विषयोनुपलम्भश्चेद् विषयी व्यवहारः ।