________________
प्र० मा वृत्तो० (४ परिच्छेदः) Ioya तोधिपक्षात् कारणव्यापकानुपलब्धिभ्यां व्यावृत्तेनिश्चिते व साध्यार्थसाधने
ऽधिकारात्। न हि विपक्षादनिश्चितब्यावृत्तिको हेतुर्गमकः। न हि कारणव्यापकानुपलब्धिभ्यामन्यो व्यावृत्तिसाधनः कारणविरुद्धोपलम्भादिष्वपि कारणाभावादभावः प्रतिपाद्यः। (२७७)
तस्योः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ।
अर्थबाधनरूपम्वा भावे भावादभावतः ॥२८॥ ... तस्या अनुपलब्धेः प्रयोगेषु स्वयं शब्दप्रतिपादितं वा स्वरूपं प्रयुज्यते । यथा स्वभावकारणव्यापकानुपलब्ध्यादिषु। निषेध्यस्यार्थस्य बाधनं विरुद्धं वा प्रयुज्यते यथा स्वभावकारणव्यापकविरुद्धोपलब्ध्यादिषु प्रयुज्यत इत्याह । अविकलकारणतया शीतस्य भावे सत्तायां सत्यां दहनस्य भावात् । अभावतो निवृत्तः। यथा शीताभावसाधने सहानवस्थानविरुद्धो वह्नः प्रयुज्यते नात्र श्रीतस्पर्थो वहेरिति। (२७८)
अन्योन्यमेदसिद्धर्वा ध्रुवमावविनाशवत् ।
प्रमाणान्तरबाधाद् वा सापेक्षधुवभाववत् ॥२७९॥ निषेध्यविधीयमानयोरन्योन्यस्याभावात्मतया भेदसिद्धार्थबाधनरूपं प्रयुज्यते । ध्रुवभावविनाशवत् । नित्यत्वानित्यत्वयोरन्योन्याभावात्मकत्वेन भेदसिद्धौ परस्परपरिहारस्थितिलक्षणतया विरुद्धं विनाशित्वं नित्यत्वबाधने प्रयुज्यते। यथा नित्यः शब्दो विनाशित्वात् । स चायं परस्परपरिहारस्थितिविरुद्धः क्वचित् साक्षाद् वा प्रयुज्यते यथा नित्यत्वस्य विनाशित्वं । क्वचिद् धर्मान्तरविरोषग्राहिणा प्रमाणान्तरेण परम्परया बाधनात्। अबाधितविरुद्धभावो वा प्रयुज्यते। सापेक्षध्रुवभावित्ववत्। यथा सापेक्षध्रुवभावयोः - साक्षाद् विरोधाभावेपि ध्रुवमा वित्वस्य यद् व्यापकं तेन विरुद्धं सापेक्षत्वं व्याप्यव्यापकयोश्च वस्तुतस्तादात्म्यादयो यद्वयापके विरुध्यते स तद्व्याप्येनापीति प्रमाणान्तरबाघनादेवावधृतविरुद्धभावं सापेक्षत्वं ध्रुवभावित्वबाधने प्रयुज्यते (1) यथा न ध्रुवभावी कृतकस्य विनाशो हेत्वन्तरसापेक्षत्वादिति। (२७९) - कस्मात् पुनर्हेत्वन्तरसापेक्षो न ध्रुवभावीत्याह।
'तृतीयेन रूपेण।