SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ न भावनश्वरस्वभावनियतो भावः ८. भावस्वभावचिन्ता (१) हेत्वन्तरसापेक्षो न ध्रुवभावः हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः । उत्पादकाद्धेतोर्हेत्वन्तर—समुत्थस्य धर्मस्य सन्निधौ सन्निधाने नियतः कुतः। यथा कारणान्तरसापेक्षस्य वाससि नावश्यंभावनियमो रागस्य । (२) न भावनश्वरस्वभावनियतो भावः स्यादेतत्। भावहेतुरेवानित्यत्वाख्यं धर्मं भावनाशकं जनयति तेन नश्वर - स्वभावनियतो भाव इत्याह । भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥२८०॥ धर्मस्य भावहेतु भवत्वेऽनित्यत्वाख्यस्य परिश्रमैरेभिः स्वीकृतैः किं प्रयोजनं । ( २८०) 5 तथा हि (1) ५११ भावनाशकस्येष्यमाणे पारम्पयें नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः तमेव नश्वरं भावं जनयेद् यदि किम्भवेत् ॥ २८१ ॥ स भावहेतुरन्यमनित्यत्वाख्यं धर्मं भावनाशनं जनयित्वा तस्याभावस्य नाशक इष्यते परंपरा । यदि तु तमेव नश्वरं भावं साक्षाद् भावहेतुर्जनयेत् । तदाकिदूषणं भवेत् । न किञ्चित् । (२८१) अपि च (1) आत्मोपकारकः कः स्यात् तस्य सिद्धात्मनः सतः । नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ॥२८२॥ यो यावाननित्यत्वाख्यो धर्म आत्मा भावस्य स किमुपकारकः सन् विनाशको भावस्य उतानुपकारक एव । तत्राद्ये पक्षे सिद्धात्मनो भावस्य सतः सर्व्वतो निराशंस्यस्य क आत्माऽनित्याख्यो धर्मोऽन्यो वा उपकारकः स्यात् । अथं द्वितीयः पक्ष: (1) तदाऽनात्मा उपकारकः स्यात् । तेन भावेन यो नाशकत्वेन समपेक्ष्येत । उपकारक एव ह्यपेक्ष्यते अनुपकारकत्वे का तस्यापेक्षा नाशकता वा । १ ( २८२) १ व्यर्था नाशहेतुकल्पना
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy