________________
105b
५१२
प्र० वा० वृत्तौ० (४ परिच्छेदः)
(३) अनपेक्ष्य एव भावो नश्वरत्वे
1
अथ नाशहेत्वयोगात् । अनपेक्ष्य एव भावो नश्वरतायां तदा ( 1 ) अनपेक्षश्च किम्भावोऽतथाभूतः कदाचन ।
अनश्वरस्वभावः ।
यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः ॥२८३॥ अनपेक्षश्च नाशे भावः किं कस्मात् कदाचनातथाभूतो सर्वदैव नश्वरस्वभावताऽस्य युक्ता । यथा त्वन्मते स एव कृतको भाव उद्भूतनाशक उन्मुखनाशकानित्यत्वस्वभावो नाशकालेऽक्षेपभागचिरविनाशी इष्टः । तथोत्पादानन्तरं नश्वरस्वभावतया विनश्येदिति । (२८३)
7
क्षरणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् ।
भावो हि स तथा भूतोऽभावे भावस्तथा कथम् ॥ २८४॥
क्षणक्षयिस्वभावा भावाः स्वहेतोरेव जायन्ते । विनाशं प्रत्यनपेक्षत्वे भावस्य यथा द्वितीये क्षणे भावो नास्ति तथा प्रथमे पि क्षणे न स्यादिति । क्षणमपि भावस्य भावो न स्यादिति चेत् । अयुक्तमेतत् हि यस्मात् स भावस्तथा नश्वरस्वभाव इष्यते । यदा तु भाव एव नास्ति तदाऽभावे भावस्य भावस्तथा नश्वरः कथमुच्यते (1) ततो लब्धजन्मतो भावस्य क्षणान्तराननुवृत्तेर्नश्वरता ।। (२८३)
तस्मात् ।
येऽपरापेक्षतद्भावास्तद्भावनियता हि ते । •न्येव साम 0 'असम्भवद्विबन्धा च सामग्री कार्यकर्मणि ||२८५||
ये भावा अनपेक्षतद्भावाः परापेक्षां विना सम्भवद्धर्मविशेषसंभवाः। ते तस्य भावे धर्मस्य नियताः । कारणसामग्रीव असम्भवद्विबन्धा विबन्धकारणरहिता कार्यस्य कर्मणि क्रियायां नियता । परनिरपेक्षारच भावाः स्वनाश इति । "क्षणिकाः सर्व्वसंस्कारा" इत्यकम्प्यः सौगतः सिंहनादः ॥
न यदिह तन्न न्याय्यं तेनोदितेन च किं फलं । यदि बहुशस्तस्या वृत्तौ गुणः कथं कस्य कः ।
१ अन्त्या सामग्री
५
दृष्टान्तः