Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
साध्याभावस्य साधनाभावेन न व्याप्तता
४९५
यद्देशकालसम्बद्धत्वेन सोऽर्थो नास्ति तथा निषिध्यते त्वदभिप्रायादतो निषेधायोगात्। यथा चास्ति स तथापि न निषिध्यते सत्वात् ।(२२७)
तस्मादाश्रित्य शब्दार्थ भवाभावसमाश्रयम् ।
अबाह्याश्रयमत्रेष्ट सर्व विधिनिषेधनम् ॥२२८॥ तस्माच्छब्दस्यार्थमारोपितबहीरूपमन्यव्यवच्छेदमबा'ह्याश्रयं बाह्यविषयरहितं य एव भावाभावयोविधिप्रतिषेधविकल्पप्रतिपाद्ययोः समाश्रयस्तमाश्रित्य व्यवहारे सर्व विधिनिषेध नमिष्टं । (२२८)
यदि वस्तु शब्दविकल्पाभ्यां विषयीक्रियते सर्वथा प्रतीतेः शब्दप्रमाणान्तरवैफल्यप्रसङ्गः। ततोन्यापोह एव विधिनिषेधसम्बन्धयोविषयः। तथा शब्दात् सत्त्वासत्त्वाभ्यां वस्तुनः प्रतीतौ विधिनिषेधयोरवैफल्यप्रसङ्गः। तस्मात् भावाभावसाधारणोऽन्वयव्यवच्छेदो विधिप्रतिषेधाभ्यां सम्बध्यत इति।
ताभ्यां स धर्मी सम्बद्धः ख्यात्यभावपि तादृशः। - शब्दप्रवृत्तरस्तीति सोपीष्टो व्यवहारभाक् ॥२२९॥ ताभ्यां विधिप्रतिषेधाभ्यां स शब्दार्थो धर्मी सम्बद्धः ख्यातिवस्तुतोऽभावेपि तादृशो विधिप्रतिषेधसम्बद्ध स्यार्थस्य (1) न हि शब्दार्थ एव कश्चित् बाह्याबाह्यार्थयो रयोगात् । तदितर स्य चाभावादित्युक्तेः। कुत एव विधिनिषेधाभ्यां तस्य सम्बन्धः स्यात्। तथापि स विधिः प्रतिषेधश्च शब्दप्रवृत्तेरस्तीति व्यवहारभागिष्टः। शब्दो हि प्रवर्त्तमानो विधिप्रतिषेधव्यवहारं वस्तुतोऽसन्तमप्यविद्याभ्यासतो वासनावशादुपदर्शयतीति तदनुरोधात् सन्नुच्यते ।(२२९)
अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने । एकधर्मस्य सर्वोत्मविधानप्रतिषेधनम् ॥२३०॥
अनानात्मतया; अन्यथा यद्येवं नेष्यते तदा पदार्थानां विधानप्रतिषेधनेऽभ्युपगम्यमाने यदि धर्मा धर्मिणोऽभिन्नास्तदैकस्य धर्मस्य विधाने प्रतिषेधने वा कृते सर्वेषां धर्माणां धात्मभूतानां विधानप्रतिषेधनं स्यात् ।(२३०) 'तेषां धर्माणामेकर्मिस्वभावत्वेनानानात्मतयैकस्वभावतयैकस्य धर्मस्य विधिः प्रतिषेधो वा सर्वस्य भवेत् ॥
१ बौद्धार्थे। २ लक्षणस्य। द्वयं नास्ति। तयोरन्यस्य। " यदि न बौद्धो विधिप्रतिषेधः धर्मिणा धर्माणामभेदो भेदो वेति दूषयति। कि कारणं।

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610