Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 9
________________ श्रीप्रज्ञापनोपाङ्गम् । प्रयोजनादि प्रस्तुमः, ववगतजरमरणभए सिद्धे अभिवंदिऊण तिविहेणं-जरा-वयोहानिलक्षणा मरणं-प्राणत्यागलक्षणं भयमिह लोकादि सप्तप्रकारं, तथा चोक्तं-"इहपरलोआआदाणमकम्हआजीवमरणमसिलोए" जरा च मरणं च भयं च जरामरणभयानि, व्यपगतानि-अपेतानि जरामरणभयानि येभ्यस्ते तथाविधाः, जरामरणभयविप्रमुक्ता इत्यर्थस्तान् , सितं ध्मातमेषामिति सिद्धानिर्दग्धानेकभवबद्धकर्मेधन। इति भावना, अत एव च व्यपगतजरामरणभयाः, तत्कारणाभावात् , तान् सिद्धान् अमिवंद्य-आभिमुख्येन वंदित्वा, प्रणम्येत्यर्थः, अनेन समानकर्तृकयोः पूर्वकाले स्वामत्ययविधानानित्यानित्यैकान्तपक्षव्यवच्छेदमाह, नित्यानित्यैकान्तपक्षे तदसंभवात् ,तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावो नित्यः,तस्य कथं मिन्नकालक्रियाद्वयकर्तृत्वं, सदा तत्प्रसङ्गात् , तथा प्रकृत्यैकक्षणस्थितिधर्माऽनित्यः, तस्यापि कथं मित्रकालक्रियाद्वयकर्तृत्वमवस्थानाभावाद् , अलं विस्तरेण, दिग्मात्रप्रदर्शन| मेवैतत् , त्रिविधेनेति-मनसा वाचा कायेनेति, अनेन योगत्रयव्यापारविकलं द्रव्यवंदनमित्याह, वन्दे जिनवरेन्द्र, यथा भुक्त्वा व्रजामि एवं सिद्धानमिवंद्य वन्दे जिनवरेन्द्र, तत्र जिनाश्चतुर्विधाः-श्रुतावधिमनःपर्यायकेवलिजिनाः, तत्र केवलिजिनवादयं जिनवर,यतश्चान्येऽपि सामान्यकेवलिनो यथा तीर्थकरास्तथाविधा विद्यते अयं तु प्रकृष्टपुण्यस्कंधरूपतीर्थकरनामकर्मोदयाती. र्थकरो बभूव अतो जिनवराणामिन्द्रो जिनवरेन्द्रस्तं, किंभूतं ?-'त्रैलोक्यगुरुं गृणाति शास्त्रार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुस्तं, तथा च भगवानधोलोकनिवासिभवनपतिदेवेभ्यः तिर्यग्लोकनिवासिव्यंतरनरपशुविद्याधरज्योतिष्केभ्यः ऊर्ध्वलोकनिवासि वैमानिकदेवेभ्यश्च धर्ममादिदेश, अथवा त्रैलोक्यगुरु-त्रैलोक्यखामिनं, तत्र सर्च एव ऋषभादयस्तीर्थकरा यथोक्तगुणोपेता * अत आह-'महावीर' 'शूर वीर विक्रांताविति कषायादिशत्रुजयात् महाविक्रान्तान्महावीरः, 'ईर गतिप्रेरणयो रित्यस्य वा विपू. ॥३॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 106