Book Title: Pragnapana Sutra Part 01 Author(s): Haribhadrasuri, Shyamacharya Publisher: Jinshasan Aradhak Trust View full book textPage 8
________________ प्रयोजनादि श्रीप्रज्ञापनोपानम् । ॥२॥ चते हि तत्परिज्ञानात् संसाराद्विरज्यंते,ततो मुख्यर्थ घटते, ततस्तामवाप्नुवन्ति । अमिधेयं प्रज्ञापनादिषत्रिंशत्पदगतं जीवाजीवादि, सम्बंधस्तु साध्यसाधनलक्षणस्तर्कानुसारिणः प्रति सामर्थ्यगम्य एव, तथाहि-साध्यमुपेयोऽर्थः, साधनमेतदेव वचनरूपापन्नमिति, श्रद्धानुसारिणः पुनः अङ्गीकृत्य गुरुपर्वक्रमलक्षणः, सच स्थविरावलिकाऽनुसारतो विज्ञेय इति वक्ष्यति च-"वायगवरवंसाउ" इत्यादि, तथा "अज्झयणमिणं चित्त"मित्यादि । सांप्रतं मंगलमुच्यते,यस्माच्छ्रेयांसि बहुविनानि भवन्तीति, उक्तश्च-श्रेयांसि बहुविनानि, भवंति महतामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः ||१॥' इति, प्रज्ञापनाख्योपाङ्गानुयोगशापवर्गप्राप्तिबीजभूतत्वाच्छ्योभूत एव, तस्मात्तदारम्मे विघ्नविनायकायुपशांतये तत् प्रदीत इति, तच्च मंगलं शास्त्रादौ मध्येऽवसाने चेष्यत इति, सर्वमेवेदं शास्त्रं मंगलमित्येतावदस्तु, मंगलत्रयाभ्युपगमस्त्वनर्थकः, प्रयोजनामावादिति चेत् न, प्रयोजनामावस्यासिदत्वात् , तथा च-कथन्चु नाम विनेयाः विवक्षितशास्त्रार्थस्याविनेन पारं गच्छेयुः?,अतोऽर्थमादिमंगलस्योपन्यासः,स एव कथन्नु नाम शिष्यप्रशिष्यादिवंशस्याव्यवचिस्योपकारकः स्यादिति ?, अतोऽर्थ चरममंगलस्येत्यतो हेतोरसिद्धतेति । तत्र प्रथमपदगतेन 'ववगतजरमरण' इत्यादिग्रन्थेनादिमंगलमाह,तथोपयोगपदगतेन 'कतिविहे गं मंते ! उवओगे पण्णचे' इत्यादिना तु मध्यमंगलं,उपयोगस्य ज्ञानात्मकत्वात् ,तस्य च प्रधानकर्मक्षयकारणत्वेन मंगलत्वाद् ,उक्तं च-"जनेइओ कम्मं खवेति बहुयाहिं वासकोडीहिं। तं गाणी तिहिं गुत्तो खवेति उस्सासमित्तेणं ॥१॥" तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमायुत्तरकालभाविना सिद्धाधिकारप्रतिबढेन 'निचिन्नसव्वदुक्खा जातिजरामरणबंधणविमुक्का। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ते ॥२॥'त्यादिना चावसानमंगलमिति । शेषाक्षेपपरिहार नामादिमेदप्रपंचो(चच) यथाऽऽवश्यकटीकायां न्यक्षेण निरूपितस्तथैवेहापि द्रष्टव्य इत्यलं प्रसंगेन,प्रकृतं ॥२॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 106