Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan

Previous | Next

Page 332
________________ चतुर्थोऽधिकारः [ २६५ इत्याद्युपदेशं श्रुत्वा एकोत्तरहस्तशतप्रमाणः प्रासादः कारयामास । भूवो गोप गिरो तत्राष्टादशरभारप्रमाणां श्रीवीरप्रतिमां न्यवीविशत् श्रीबप्पभट्टिभिः प्रतिष्ठिता । तत्र चैत्ये मूखमण्डपः सपादलक्षसौवर्णटकैर्निष्पन्नः इति वृद्धाः प्राहुः । सदा भूपो गजारूढो देवं वन्दितुं याति देवगृहे सदा नृत्यनादपूजामहापुष्पं पूजादि महोत्सवं राजा कारयति । दिनं प्रति देवगृहे मूढकद्वयमक्षता आयान्ति, गोणीद्वयं पूगीफलानि अपरवस्तूनां संख्या न ज्ञायते । उभयकालमारात्रिकमहोत्सवो भवति । विशेषतः कार्त्तिकपूजा कार्त्तिकमासे दीपशतसहस्रैः कार्यते नृपेण । इति गोपगिरौ १८ भारस्वर्णप्रतिमानिर्मापनसम्बन्धः ||४८४॥ 5 [485] अथ श्रीवप्यभट्टिसूरिर्लक्षणापुरीगमनधर्मराजप्रतिबोधसम्बन्धः । एकदाऽन्तःपुरे वलभां प्रम्लानमुखीं दृष्ट्वा श्रीबप्पभट्टिपावें गाथार्द्ध राजाऽवग्" अज्जवि सा परितप्पड़, कमलमुही अत्तणोपमाएणं" । गुरुः प्राह “पढमविबुद्धेण तए, जीसे पच्छाईअं अंगं” ॥१॥ राजा दुष्यावयं सर्वज्ञ एव ।. अन्यदा राजा पत्नीं पदे पदे मन्दं मन्दं संचरन्तीं दृष्ट्रा गाथार्द्ध प्राह"बाला चंक्रमंती पए पए, कीस कुणइ मुहभंगं" । सूरिः प्राह "नूणं रमणपएसे मेहलया छिप्पर नहपंती" ॥१॥ इदं श्रुत्वा राजा दध्यौ - एष सूरिरन्तःपुरे किं प्रविष्टः ? अहो विद्यागुगोऽपि दोषाय गतः । राज्ञो मनो ज्ञात्वा श्रीसूरिः संघमनापृच्छय पुरद्वारे काव्यं लिखितवानेव --- यामः स्वस्ति तवास्तु १ रोहणगिरौ मत्तः स्थितिप्रच्युता, वर्त्तयन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमांस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥१॥ अस्मान विचित्रवपुषश्चिरपृष्ठलग्नान् किं वा विमुञ्चसि विभो ? यदि वा विमुञ्च ! हा हन्त केकिवर हानिरियं तवैव भूपालमौलिषु पुनर्भविता स्थितिर्नः ||२|| एवं लिखित्वा गुरवोर्लक्षणवत्यां पुर्यां धर्मराजपालिताय गताः सूत्सवं । तत्र नित्यं धर्मराजा गुरुं वन्दते उपदेशं शृणोति । इति श्रीप भट्टिसूरिर्लक्षणापुरीगमनधर्मराजप्रतिबोधसम्बन्धः ||४८५ || १. रोहणगिरे ! २. श्रीमंस्ते । ३. भूपालमूर्धनि । "Aho Shrutgyanam" 10 15 20 25

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456