Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan

Previous | Next

Page 404
________________ चतुर्थोऽधिकारः [३३७ सर्वनाशे समुत्पने प्राणानामपि संशये । अपि शत्रं प्रणम्योचे, रक्षेत् प्राणान् धनानि च ॥४॥ सर्पोऽवग-वैरिणः कुत्र सन्ति । भेकोऽवग्-कूपे सन्ति । सर्पोऽवग्-तत्र फयं गम्यते । कथं ते दायादा: [भक्षयिष्यते] । भेकोऽवग-अहं विश्वास्य दर्शयिष्यामि दूरतो यान तान् त्वया भक्षणीया । ततो भेको गंगदत्तः सर्प अरघट्टघटमार्गेण कूपमध्ये नीतवान् । ततो भेकेन । दर्शिता भेका भक्षिताः सर्पण । अथ भेकाभावे सर्पोऽवग-तव वैरिणो भक्षिता मया। ततोऽहं बुमुभितोस्मि, प्रयच्छ भक्ष्न्यं, यतोऽहं खयानीतोऽस्मि । गंगदत्तोऽवग्-भद्रं कृतं मस्काय, त्वं स्वस्थाने गच्छारघट्टघटोमार्गेण । सर्पः प्राह-मदीयं बिलमन्यै रुद्धं भावि, तेनात्रस्थस्य मम स्ववांदेकैकं भेकं प्रयच्छ प्रतिदिनं नो चेत् सर्वानपि भक्षयामि [भक्षयिष्यामि । ततो गंगदत्तो विभ्यन् दथ्यौ-मया किमकार्य कृतम् । असौ वैरी अत्रानीतो मौढ्यात् यदि किं जल्पते सम्मुखं 10 तदा सर्वान् मया सह भक्षयत्यहिः । यत: अमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति निःसंदेहः स्वयं च विषमक्षणम् ॥५॥ तत्प्रयच्छाम्येकैकं सायास्मै प्रतिदिनं । सक्तं च सर्वनाशे समुत्पन्ने, अद्धं त्यजति पण्डितः । न स्वल्पस्य कृते सर्व नाशयेन् मौढ्यमास्थितः ॥६॥ एवं ध्यात्वा स्वजातित एकमेकं भेकं सोय ददाति गंगदतः । परोक्षे अपरमपि सर्पोऽवसरे भक्षयति । एकदा गंगदत्तपुत्रोपि बुभुक्षितेन भक्षितोऽहिना तत् ज्ञात्वा गंगदत्तो विलापान करोति । ततो गंगदत्तपल्याभिहितं-कान्त ! असौ सपो यथा निष्काश्यते मार्यते वा तथा कुरु, किं रोदनेन । वैरी स्वगृहे आनीतो मुधा स्वजातिनिष्ठापिता । कालेन गच्छता एको गंगदत्त 20 सरितः । सर्पणोक्तं भक्ष्यं देहि बुमुक्षितोऽस्म्यहम् । त्वयाहमत्रानीतोऽस्मि । गंगदत्तः स्वजीवितरक्षणाय विचिन्त्याह-भो मित्र ! त्वमत्र तिष्ठ, अहमन्यस्मात् कूपात् विश्वास्य विश्वास्य भेकानानेष्यामि त्वया ते भक्षणीयाः । एवं प्रोक्त्वा गंगदत्तोऽरघट्टघटीमार्गेण निर्गत्यापरकूपे गतः। म च भेको यदा नायाति तदा सो गोधां प्रति प्राह-गंगदत्तं विश्वास्यात्रानय । सा च गोधा पश्यन्ती गंगदत्ताधिष्ठिते कूपे यी जगी च-मो गंगदत्त ! तव सुहृद् सप्पैः तव वरम विलोक- 25 यन्नस्ति । तव विरहात्तस्य प्राणा यान्ति । ततो गंगदत्तोऽवग् गच्छ गोधे ? कथय मम मित्राय "बुभुक्षितः किं न करोति पापं ।" इति स्वजातिनिकन्दनपापे गंगदत्तमेकसम्बन्धः ॥५६८॥ [ 99 ] अथ मुग्धत्वे रासभसम्बन्धः । आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम् । 30 अकर्ण हृदयो मूर्यो यो गत्वा पुनरागतः ॥१॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456