Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan
________________
३४८ ]
प्रबन्धपश्चशती
[ 616 ] अथ श्रीकर्णामूलीराजमरणकथनादि भीयशोभद्रसरिसम्बन्धः ।
[ तपस्वी रूपवान् धीरः कुलीनः शीलदाढर्ययुक् ।
षट्त्रिंशद्गुणाढ्योऽभू-च्छीयशोभद्रसरिराट् ॥१॥] एकदा संधेन सह धीयशोभद्रसूरयः पत्तने प्राप्ताः । श्रीमूलराजा गुरुं सुप्रभावं ज्ञात्वा वंदनायै गतः। धर्मदेशना अता। राजा रंजितः प्राह मम प्रसधात्रपुरे स्थेयम् । गुरुणोक्तम्साधवो नैकत्र तिष्ठन्ति । ततो राजा स्वगृहे स्वगृहपवित्रीकरणायाकारितवान् । राजा तु गुरुन् भक्त्या प्रपीण्य स्वगृहान्तरे स्थापितवान् द्वारं दत्तवान् । गुरुणा ध्यातं राजानुबलेन मा स्थापयिष्यति यत् तन्न युक्तम् । ततो वमनि श्रीसंघवहमानं कारयित्वा कपाटछिद्रेण लघु.
रूपं कृत्वा निर्गत्य च संघस्य गुरवो मिलिता: । भद्रमुखेनाशीर्वाद ददौ राझो झापयामासुश्च । 10 राज्ञा ध्यातम्-अपवरकमध्यात् कथं गुरवः सङ्घमध्ये प्राप्ताः । ततो गृहमध्ये गुरूनदृष्ट्वा गुरुपार्श्वे
राजाभ्येत्य प्राह-भगवन् ! यूयं सुप्रभावाः । मयापराधः कृतः झम्यताम् । गुरूणा प्रोक्तंसाधवो बलेन न रक्ष्यन्ते । ततो राज्ञा स्वायुः पृष्टम् । गुरुणा षण्मासाः प्रोक्ताः । धर्मोषधं कुरु । ततो राजा गुरूम् प्रणम्य पश्चाद् धनेन बहुजनान् संतोष्य स्वं पुत्रं राज्ये [ अभिसिध्य ] गुरूक्तदिने धमकम्मपरः स्वर्ग जगाम राजा, गुरुवोऽप्रतः शत्रुञ्जयादौ यात्रा चक्रः । । इति श्रीकणे[मूल] राजमरणकथनादि श्रीयशोभद्रसूरिसंबंधः ॥६१७॥
[618 ] अथ चन्द्रोदयोपशांतिसम्बन्धः । आघाटपुरे उल्लूरनृपमान्यो गणधरामात्यो राजव्यापार चलं मत्वा राजानुमत्या महान्तं प्रासादं कारयामास । श्रीयशोमवसूरि चित्रकूटाचलतः आकार्य प्रासादे श्रोपावबिबं प्रातिष्ठिपत्
गुरुपामात्यश्रीसंघयुतश्चैत्यपाटीं करोति स्म । 20 अत्रावसरे कोप्यवधूतो गुरु दृष्ट्वा स्वहस्तेनाननं पस्पर्श । गुरुणा तन्मनोभिप्रायं ज्ञात्वा
स्वपाणी धृष्ट्वा श्यामौ दर्शितो सबाढं चमत्कृतः राजापि च । एषः महान् कलावानिति मत्वा म गुरु नत्वा प्रयातः । राजामात्यादिभिगुरवः पृष्टाः-किमेतद् गुरुणा कृतम् ? गुरु प्राहउज्जयिन्यां महाकालप्रासादे प्रदीपेन चंद्रोदयो लग्नोऽनेन च देवप्रभावात् तं झास्वास्माकं हापितं सर्वज्ञपुत्रा एते इति। अतोऽस्माभिः करो धृष्टा श्यामो दर्शितौ तस्य । ततः संकेते प्राप्ते सति नतः स गतः। ततो राजा विशेषतश्चमत्कृतः राज्ञोकं प्रकटं गुरोः [गुरो १] कथय । ततो गुरुणा महाकालदीपलग्नादिसम्बन्धः प्रोकोऽस्माभिः स विध्यापितः । राजा तत्रोजयिन्या स्वनरान् प्रेध्य प्रत्ययाय । तस्मिन्नेव दिने उमोचनज्वलनं तच्छातिभवनं च ज्ञातवान् । ततो राजा हृष्टः । श्रीयशोभद्रसूरिपार्श्वे जिनधर्ममनीचक्रे ।
इति चन्द्रोदयोपशान्तिसम्बन्धः ॥६१८॥
"Aho Shrutgyanam".
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456