________________
चतुर्थोऽधिकारः
[३३७ सर्वनाशे समुत्पने प्राणानामपि संशये ।
अपि शत्रं प्रणम्योचे, रक्षेत् प्राणान् धनानि च ॥४॥ सर्पोऽवग-वैरिणः कुत्र सन्ति । भेकोऽवग्-कूपे सन्ति । सर्पोऽवग्-तत्र फयं गम्यते । कथं ते दायादा: [भक्षयिष्यते] । भेकोऽवग-अहं विश्वास्य दर्शयिष्यामि दूरतो यान तान् त्वया भक्षणीया । ततो भेको गंगदत्तः सर्प अरघट्टघटमार्गेण कूपमध्ये नीतवान् । ततो भेकेन । दर्शिता भेका भक्षिताः सर्पण । अथ भेकाभावे सर्पोऽवग-तव वैरिणो भक्षिता मया। ततोऽहं बुमुभितोस्मि, प्रयच्छ भक्ष्न्यं, यतोऽहं खयानीतोऽस्मि । गंगदत्तोऽवग्-भद्रं कृतं मस्काय, त्वं स्वस्थाने गच्छारघट्टघटोमार्गेण । सर्पः प्राह-मदीयं बिलमन्यै रुद्धं भावि, तेनात्रस्थस्य मम स्ववांदेकैकं भेकं प्रयच्छ प्रतिदिनं नो चेत् सर्वानपि भक्षयामि [भक्षयिष्यामि । ततो गंगदत्तो विभ्यन् दथ्यौ-मया किमकार्य कृतम् । असौ वैरी अत्रानीतो मौढ्यात् यदि किं जल्पते सम्मुखं 10 तदा सर्वान् मया सह भक्षयत्यहिः । यत:
अमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः ।
स करोति निःसंदेहः स्वयं च विषमक्षणम् ॥५॥ तत्प्रयच्छाम्येकैकं सायास्मै प्रतिदिनं । सक्तं च
सर्वनाशे समुत्पन्ने, अद्धं त्यजति पण्डितः ।
न स्वल्पस्य कृते सर्व नाशयेन् मौढ्यमास्थितः ॥६॥ एवं ध्यात्वा स्वजातित एकमेकं भेकं सोय ददाति गंगदतः । परोक्षे अपरमपि सर्पोऽवसरे भक्षयति । एकदा गंगदत्तपुत्रोपि बुभुक्षितेन भक्षितोऽहिना तत् ज्ञात्वा गंगदत्तो विलापान करोति । ततो गंगदत्तपल्याभिहितं-कान्त ! असौ सपो यथा निष्काश्यते मार्यते वा तथा कुरु, किं रोदनेन । वैरी स्वगृहे आनीतो मुधा स्वजातिनिष्ठापिता । कालेन गच्छता एको गंगदत्त 20 सरितः । सर्पणोक्तं भक्ष्यं देहि बुमुक्षितोऽस्म्यहम् । त्वयाहमत्रानीतोऽस्मि । गंगदत्तः स्वजीवितरक्षणाय विचिन्त्याह-भो मित्र ! त्वमत्र तिष्ठ, अहमन्यस्मात् कूपात् विश्वास्य विश्वास्य भेकानानेष्यामि त्वया ते भक्षणीयाः । एवं प्रोक्त्वा गंगदत्तोऽरघट्टघटीमार्गेण निर्गत्यापरकूपे गतः। म च भेको यदा नायाति तदा सो गोधां प्रति प्राह-गंगदत्तं विश्वास्यात्रानय । सा च गोधा पश्यन्ती गंगदत्ताधिष्ठिते कूपे यी जगी च-मो गंगदत्त ! तव सुहृद् सप्पैः तव वरम विलोक- 25 यन्नस्ति । तव विरहात्तस्य प्राणा यान्ति । ततो गंगदत्तोऽवग् गच्छ गोधे ? कथय मम मित्राय "बुभुक्षितः किं न करोति पापं ।"
इति स्वजातिनिकन्दनपापे गंगदत्तमेकसम्बन्धः ॥५६८॥
[ 99 ] अथ मुग्धत्वे रासभसम्बन्धः । आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम् ।
30 अकर्ण हृदयो मूर्यो यो गत्वा पुनरागतः ॥१॥
"Aho Shrutgyanam"