Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan
________________
३५४ ]
प्रामपञ्चशती सप्तस्वराजयो प्रामा, मुर्छनास्त्वे कविंशतिः । ताला स्वेकोनपञ्चाशव, तिस्रो मात्रा लयाशयः ॥२॥ स्थानत्रयं यतीनां च पहास्यानि रसा नव ।
वर्णाः षट्त्रिंशद् मावा द्विचत्वारिंशत् स्मृताः ॥३॥ [ रागाः षट्त्रिंशतिर्भावाः द्विचत्वारिंशव ततः स्मृताः ॥३॥]
पंचाशीत्यधिकं घेतद् गीताङ्गानां शतं स्मृतम् ।
स्वयमेव पुरा प्रोक्तं, भरतेन श्रुतेः प्रियम् [ परम् ] ॥४॥ इत्यादितो गीतस्वरूपमहं जानामि । ततः शृगालः प्राह-यदि त्वं गीतं गायसि तदाह वृत्तेबहिस्थस्त्वदुक्तं गीतं शृणोमि । त्वं तु स्वेच्छया गाय । ततो राममो रदितु लग्न उचैः । 10 तदा जागरितः क्षेत्रपः क्रोधात् धावित्वा खरं लकुटेराहत्योदूखले बंधयित्वा क्षेत्रपा सुप्तः । म
खरः प्रहारपीडितोपि गतवेदन उत्थाय उदूखलयुतो वृत्तिं चूर्णयित्वा बहिनिर्गतः । तदा मातुलमागचन्तं खरं दृष्ट्वा भृगालः प्राहोपहास ।
साधु मातुल ! गीतेन मया प्रोक्तोऽपि न स्थितः । कंठेऽपूर्वा मणिबंद्धः, संप्राप्तं गीतजं फलम् ।। इति अज्ञाने हितोपदेशाकरणे खरसम्बन्धः ॥६१०॥
[ 611 ] अथ वृद्धहितवाक्ये वृद्धवानरसम्बन्धः । भीमपुरे चंद्रचूडभूपस्य पुत्रा वानः सह क्रीडां कुर्वन्ति । तेषां वर्यफलाधाहारं ददम्ति । तेषां वानराणां वृद्धो वानरो विचमणो विद्यते । एकदा वृद्धवानरेण प्रोक्तं-महानसमध्ये
रसवती बलादयितुं मेषयूथादेकोऽजः प्रविश्य लौल्याद् रसवती भक्षयति यदा तदा सूपकार 20 उल्मुकं लात्वा तं ताडयति । स च सम्मुखो भवति यदा तदा पृष्ठौ ताडयति मिथः कलहः
सदा जायते हुडसूपकारयोः । राजवल्लभत्वात् कोऽपि तस्योपद्रवं मरणान्तं न करोति । वृद्धवानरस्तं कलह दृष्टा वानराणा पुत्राणां पुरः सूपकार-हुडकलिं प्राह । कदाचित् सूपकारेणोल्मुकेन ज्वलता हुड आहतो भविष्यति यदा तदास्य हुडस्योर्णा लगिध्यति । स च अश्वतृष्णकुटीरमध्ये
यास्यति । अश्वतृणकुटीराणि ज्वलिष्यति । अश्वा अजल्पति दग्धा भविष्यन्ति तदा च वैद्याः 25 तेषामश्वानां चिदिकारूजनाय वानरतलमादिशति । तदा राजा भवतो हत्वा वानरतैलं कार
यिष्यन्ति । अतः सकाले एवान्यत्र गम्यते तदा वरं । वानरैरुक्तम् त्वं वृद्धो प्रथिलोऽभूः । त्वं गच्छ, वयं कुत्रापि न यास्यामः । वृद्धो वानरोऽन्यत्र वने अश्रुपातं मुख्छन् गतः। ततो हुदोर्णा बलताश्वशालाज्वलिता, अश्वज्वलनादौ च जाते वानरतैलेनाश्वानां चिकित्सा कारिता राहा। तदा
केचिन् नंष्टा पितुः पार्श्वे ये गतारते जीविता अन्ये वानरा मारिताः एवं वृद्धोक्तं ये न कुर्वन्ति ते 30 वानरा इव मरणं गच्छन्ति ।
"Aho Shrutgyanam"
Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456